________________ // 4 // // 6 // // 7 // // 8 // // 9 // रूपस्येव परं रूपं, श्रियो मूर्तिरिवापरा / तस्याः कुक्षावहं भद्रे, भवितव्यतया धृतः / प्रासूत पूर्णे काले सा, मित्राभ्यां मां समन्वितम् / हृष्टौ सा च पिता चाभ्यां, सुहृदौ मे न लक्षितौ पितृभ्यां मे कृतं नाम, यथाऽयं धनशेखरः / मित्राभ्यां सहितस्ताभ्यां, जातोऽहं विलसन् सुखी प्राप्तश्च यौवनं भद्रं, स्मरसिंहवनं तदा / त्यक्त्वा धर्मकलामेकां, संप्राप्ताः सकलाः कलाः तदा सम्पादितास्तेन, सुहृदा सागरेण मे / वितताश्चित्तकल्लोलाः, प्रक्षुब्धेन क्षणे क्षणे धनमेव जगत्सारं, श्लाघाया: कारणं धनम् / राजाद्या यद् विशिष्यन्ते, तल्लोके धनजृम्भितम् तप:श्रुतवयोवृद्धा, धनवृद्धस्य किङ्कराः / एका धनकला पूज्या, तच्चान्द्रीवेश्वराश्रिता . यावन्न दृष्टा रत्नौघास्तावन्मे निर्वृतिः कुतः / गत्वा देशान्तरं कुर्यां, तद् गृहं रत्नपूरितम् तातस्य सन्निधावीविकल्पप्रेरितो गतः / उक्तं मयाऽनुजानीहि, तात ! कर्तुं धनार्जनम् गच्छाम्यहं विदेशेषु, स्फोरयामि च पौरुषम् / पिता प्राह धनं तेऽस्ति, दानभोगक्षम बहु तदेव त्वं नियुआनः, कुलप्राप्तं यथेच्छया / गृहे तिष्ठ वियोगं तु, सोढुं शक्नोमि नो तव मयोक्तं पूर्वपुरुषश्रीर्मातेवोपभुज्यते / . स्तनन्धयेन यूनां तु, तस्या भोगस्त्रपाकरः 5 // 10 // // 11 // // 12 // // 13 // // 14 // // 15 //