________________ // 708 // // 709 // // 710 // // 711 // // 712 // // 713 // दिनान्यष्टविधायोच्चैर्जिनपूजां महोदयाम् / / प्रदाय च महादानं, शुभे काले समाहितः सबान्धवः सपत्नीको, विमलेन समं नृपः / सपौरलोको निष्क्रान्तः, सम्यक्त्वं जगृहु: परे वामदेवस्य मम तु, प्रबोधो न तदाऽप्यभूत् / / ज्ञातो धूर्तो मया सूरिरसौ बहुलिकांस्पृशा राजादीनां मया दीक्षाऽवसरे चेति चिन्तितम् / मुनिः सिद्धेन्द्रजालोऽयं, लोकान् सर्वानवञ्चयत् ग्राहयिष्यति तेनैतानेष दीक्षां वशीकृतान् / . विमलोऽपि वयस्यो मे, मां नेष्यति बलात् सह / तदादौ वञ्चयाम्येनमिति ध्यात्वा पलायितः / सर्वत्रान्वेषितो दीक्षादिनेऽहं विमलेन च, अदृष्ट्वा मां बुधाचार्यः, पृष्टः क्वागात् सुहृत् स मे / ज्ञानवान् स च निःशेषं तस्मै मच्चरितं जगौ विमलोऽभिदधे तत् किं, न भव्योऽयं शठाशयः / सूरिः प्रोवाच नाभव्यः, प्रकृत्या सुन्दरो ह्ययम् दोषः सर्वोऽपि चैतस्य, भगिनीभ्रातृसङ्गतः / मायाऽऽख्याऽस्ति भगिन्यस्य, भ्राता च स्तेयनामकः तद्वशोऽयं पुरा चक्रे, रत्नस्य हरणादिकम् / विमलः प्राह तत्त्यागस्वास्थ्यं प्राप्स्यत्ययं कदा सूरिराह गते भूरिकाले ताभ्यां वियोक्ष्यते / ऋजुताऽस्तेयते कन्ये, प्राप्य रुच्याशयादसौ तच्छ्रुत्वा विमलेनाहमयोग्यत्वादुपेक्षितः। .. प्राप्तोऽथ काञ्चनपुरे, दृष्टश्च सरलो वणिग् . // 714 // // 715 // // 716 // // 717 // // 718 // . // 719 / / SO