________________ // 576 // // 577 // // 578 // // 579 // // 580 // // 581 // स्थानेषु तादृशेष्वेष, ततः प्रभृति वां हितः / अन्वागतो युवाभ्यां च, गुहास्थः परिलालितः आगताभ्यां विशेषेण, लालितो नृगतिं पुरीम् / अहं भुजङ्गताऽऽख्या च, कृताऽस्य परिचारिका तदेवं चिरसम्बद्धौ, कुरुथो गजमीलिकाम् / युवां यत् स्यात् ततोऽन्यत् किं, परं मे शोककारणम् युवाभ्यां प्राक्तनस्थित्या, तद् धार्या प्रेमपद्धतिः / इति श्रुत्वा बुधो दध्यौ, धूर्तेयं न हितावहा ईषस्मितं सलज्जं च, कुलस्त्री मृदु भाषते / इयं च बृहदाटोपा, वितनोति विपर्ययम् इत्युपेक्षापरस्तस्यां, बुधो नोत्तरमप्यदात् / स्नेहक्रीतोऽभवत् तस्याः, साक्षान्मन्दस्तु किङ्करः ऊचे च किं करोम्येष, ततः प्राह भुजङ्गता / सेव्यः सुहृत् त्वया गन्धलुब्धबुद्धिरयं सदा चन्दनागुरुकर्पूरकस्तूर्यादि सुगन्धि यत् / ' तद् रोचतेऽस्य नामापि, दुर्गन्धस्य न रोचते इष्टोपनत्याऽनिष्टस्य, दूरतश्च निवारणात् / . घ्राणेन लालितेनेह, तद् भावि भवतो सुखम् मन्दः प्राह करोम्येवं, तिष्ठ भद्रे ! निरकुला। साऽपि तद्वचसा तुष्टा, दधौ मौनं बुधः पुनः दध्यौ च क्षेत्रमेतन्मे, शैलश्चेयं महागुहा / घ्राणोऽप्यस्यां स्थितः पाल्यो, मम नास्त्यत्र संशयः अस्या नार्या गिरा कार्य, केवलं नास्य लालनम् / / आक्षेत्रमोक्षं कार्याऽस्य, धारणा लोकयात्रया . 49 // 582 // // 583 // // 584 // // 585 // // 586 // // 587 //