________________ // 564 / - // 565 / // .566 // // 567 // // 568 // // .569 // अन्यदा बुधमन्दाभ्यां, ददृशे भालपर्वतः / विलसद्भ्यां निजक्षेत्रे, सानुस्थकबरीवनः तस्याधस्ताद् गता दूरं, दृष्टा नासा महागुहा / तत्रापवरकद्वन्द्वं, दृष्टं भूयोऽन्धकारभृत् इत्थमाश्चर्ययुतयोः, पश्यतोर्बुधमन्दयोः / गुहातो निर्गता नारी, काचित् पवनचञ्चला दर्शयन्ती पुरः प्रीति, सा कृत्वा प्रणति तयोः / जगौ साधुकृतं नाथौ, युवाभ्यां यदिहागतम् मन्दस्तां कोमलोल्लापैः, सस्नेहं समभाषत / का त्वं बाले ! किमर्थं वा, वसस्यत्र गुहाऽन्तरे श्रुत्वा तद्वचनं मूछौं, प्राप सा शोकपीडिता / किमेतदिति पृष्टा च, स्वस्थीभूताऽऽह तं प्रति युवयोर्विस्मृतिर्नाथ !, मम शोकस्य कारणम् / अहं भुजङ्गता नाम, युवयोः परिचारिका अहं भवद्भ्यामेवास्यां, गुहायां स्थापिता पुरा / अस्यां हि घ्राणनामाऽस्ति, वयस्यो युवयोः प्रियः तिष्ठामि भवदादेशात्, तस्याहं परिचारिका / संगतं चिरकालीनं, युवयोः सह तेन हि पुरेऽसंव्यवहाराख्ये, स्थितिः प्राग् युवयोरभूत् / एकाक्षाख्ये गतौ कर्मपरिणामाज्ञया ततः विकलाक्षे ततः प्राप्तौ, तत्रास्ते पाटकत्रयम् / द्वितीयपाटके तत्र, त्रीन्द्रियाख्ये यदा स्थितौ दत्तेयं वां गुहा कर्मपरिणामेन भूभुजा / तदा तत्र प्रसन्नेन, घ्राणाख्यश्च कृतः सुहृत् 48 // 570 // // 571 // / / 572 // // 573 // . // 574 // // 575 // /