________________ मग्ना दुःखोदधावस्मात् कथं मोक्षो भविष्यति / सूरिराह तथा जातं, तस्य वार्तान्तरं यथा // 528 // तैरुपद्रूयमानं तं, संप्रेक्ष्य बठरं गुरुम् / महामाहेश्वरस्याभूत्, तस्यैकस्य कृपोपरि // 529 // पृष्टस्तेन महावैद्यस्ततस्तदुपदेशतः / आत्तोपकरणो रात्रौ, गतोऽसौ शिवमन्दिरम् // 530 // नाटयित्वाऽथ तं सुप्ता, बहुवेलं मलिम्लुचाः / प्रस्तावं तं समासाद्य, तेन दीपः स्फुटीकृतः // 531 // भवितव्यतयाऽपश्यत्, खिन्नस्तं बठरो गुरुः / ययाचेऽम्बु ददौ तस्य, स ततस्तत्त्वरोचकम् // 532 // तत्पानान्नष्ट उन्मादो, नैर्मल्यं चेतना गता। . धूर्ताश्चौरास्तेन दृष्टा, वजं माहेश्वरो ददौ जगौ च वैरिणस्तेऽमी, तदेतेन निपातय / . वज्रेण तेन ते चौरा, अंथोत्थायाखिला हताः // 534 // उद्घाटितः स्फुरद्धामा, चित्तापंवरकस्ततः / कुटुम्बं स्वं स्फुटीभूतमुदभूद् रत्नसञ्चयः // 535 // दृष्टाऽखिला स्वसद्मश्रीरभूत् सारगुरुस्ततः / परित्यज्य भवग्राम, गतः शिवमठेऽथ सः // 536 // भूपः प्राह नियोज्येयं, कथमत्र जने कथा / गुरुर्जगौ महामाहेश्वरो धर्मप्रबोधकृत् // 537 // लोकभौतं भवग्रामे, दृष्ट्वा रागादिपीडितम् / भिक्षामात्रेण सन्तुष्टमुन्मत्तं च कृपापरः / / 538 // अस्माद् दुःखात् कथं मोक्षः, स्यादस्येति विचिन्तयन् / जिनवैद्योपदेशेन, तद्धिताय प्रवर्तते // 539 //