________________ // 504 // // 505 // // 506 // // 507 // // 508 // // 509 // चौरा रागादयो दोषा, धूर्ता लोकस्य वञ्चकाः / तेन मित्रीकृताः कर्मोन्मादं संवर्धयन्ति ते तस्य रूपं वशीकृत्य, क्षिप्त्वाऽन्तस्तत्कुटुम्बकम् / मुद्रयन्ति मनोद्वारं, सद्यस्ते नाट्यविद्यया अथ स्वाभाविकं रूपं, मुषित्वा तस्य मन्दिरम् / महामोहं बृहद्धूर्त, चक्रुस्तत्र महीपतिम् लोकं तस्याग्रतो हृष्टाः, सोन्मादं नाटयन्ति ते / श्रूयते तत्कलकलो, गीततालारवोद्धतः माहेश्वरास्तु ते ज्ञेयाः, प्रबुद्धा ये जिनागमे / लोकस्य वारयन्त्येते, रागादिस्तेनसंगतिम् हितं न मन्यते वाक्यं, स तून्मादेन विह्वलः / . तत् तैः सारगुरुः प्रोक्तः, सोऽज्ञत्वाद् बठरो गुरुः / जैनमाहेश्वरैस्तस्य, त्यक्तं च शिवमन्दिरम् / . रागादिचौरवशगं, लोकभौतमवेत्य तम् . भिक्षां तं याचमानं च, भोगाकाङ्क्षाक्षुधातुरम् / रागादयो भवग्रामे, भ्रामयन्ति मदोद्धताः तिर्यग्नारकमानुष्यदेवसम्बन्धिनो भवाः / चत्वारः पाटकास्तत्र, प्रोक्तरूपाः प्रकीर्तिताः कपरं च शरावं च, तानं राजतमेव च। कीर्तितं तत् तदायुष्कं, लोकभौतस्य भाजनम् तत्र पापमषीलिप्तो, नरकायुष्ककपरे / दीनोऽसौ याचते भोगभिक्षां नरकपाटके नं तत्र लभते भिक्षां, रागादिस्तेनसंज्ञितैः / घोरैर्नरकपालैश्च, षिङ्गतुल्यैः प्रपीड्यते .. . 43 // 510 // // 511 // // 512 // // 513 // // 514 // // 515 //