________________ // 480 // // 481 // // 482 // // 483 // // 484 // // 485 // स्वकुटुम्बं परित्यज्य, तैः सार्धं विलसत्यसौ / माहेश्वरा निषेधन्ति, मा कृथाश्चौरसंगमम् ...... न मन्यते स तद्वाचं, ततो मूर्खमवेत्य तम् / ते सारगुरुरित्याख्यां, हृत्वाऽऽहुर्बठरं गुरुम् चौरमित्रान्वितं ज्ञात्वा, स्वामिनं बठरं गुरुम् / सर्वे माहेश्वरास्तत् ते, विजहुर्देवमन्दिरम् ततः सप्रसरैश्चौरैर्योगशक्त्याऽस्य वर्धितः / उन्मादो बाढमायत्तं, तत् कृतं शिवमन्दिरम् मध्यापवरके धृत्वाऽभिभूतं तत्कुटुम्बकम् / मुद्रितं द्वारमेकोऽत्र, स्थापितस्तस्कराग्रणी: कृततालारवास्तस्याग्रस्तं नाटयन्त्यथ / गायन्ति ध्रुवकोच्चारैर्गीतं ते स्फीतमानसाः स्वकुटुम्बव्यतिकरं, बठर: स्वां विडम्बनाम् / . हरणं भवनर्द्धस्तद्वैरितां च न वेत्ति सः . दिवा रात्रौ च सन्तुष्टश्चौरमध्ये स नृत्यति / . विपुलास्तत्र च ग्रामे, चत्वारः सन्ति पाटकाः हीनहीनतरौ द्वौ द्वौ, श्रेष्ठश्रेष्ठतरौ तथा / क्षुधितो याचते भिक्षामथासौ बठरो गुरुः ततस्तैरपितं तस्य, तस्करैर्घटकर्परम् / .. भिक्षामटेत्यभिहितो, मषीपुण्ड्रकचर्चितः / भिक्षार्थी तद्युतोऽथागात्, स हीनतरपाटकम् / नर्तितोऽनुगृहं तत्र, कृततालारवैश्च तैः तत्संज्ञितैः षिड्गलोकैस्तत्रासौ ताडितो भृशम् / यष्टिमुष्टिमहालोष्टप्रहारैरतिदारुणैः / // 486 // // 487 // // 488 // // 489 // // 490 // // 491 // . . . 41