________________ // 444 // * // 445 // // 446 // // 447 // // 448 // // 449 // अविद्याशयने सर्वे, स्वपन्ति भवजन्तवः / / महाघुरघुरारावं, कुर्वन्तः क्रोधचेष्टितैः . . शब्दैरपि न बुध्यन्ते, प्रदीर्धेस्ते विवेकिनाम् / बोधिता अति कृच्छ्रेण, घूर्णन्ते मोहनिद्रया वल्गन्तोऽपि ततो ज्ञेया, गहिणः प्रचलायिताः / / मुनयस्तां विना निद्रां, सुप्ता अपि हि जाग्रति स्वस्यान्येषां च पश्यन्ति, ते हि गत्यागती श्रुतैः / तद् यूयं प्रचलायध्वे, नाहमित्यास्थितं मया दरिद्रा भूपते ! ज्ञेया, ये सद्धर्मविवर्जिताः / परप्रार्थनया बाढं, दीना विषयभिक्षवः येषां तु भावरत्नानि, चित्तापवरके सदा। देदीप्यन्ते मुनिजनाः, स्वाधीना धनिनो हि ते ते स्वयं भुञ्जते वित्तं, जगत् पुष्णन्ति तेन च / अलाबुहस्ता अपि ते, विज्ञेयाः परमेश्वराः अनादिनिधनज्ञानधनोऽहं तद् भवादृशैः। . स्वं दारिद्ममनालोच्य, दरिद्रो भावितः कथम् मलिनोऽपि स विज्ञेयो, यः कर्ममलभारितः / मुद्रिताशुचिकुम्भाभः, क्षालितोऽपि बहिर्भृशम् हारतारकनाथांशुक्षीरनिर्मलमानसः / निर्मलस्तत्त्वतो ज्ञेयो, बहिर्मलधरोऽपि हि भावमालिन्यमध्यात्वा, तदिदं स्वहृदि स्थितम् / हसितोऽहं जनैः केन, हेतुना मलभागिति सुरासुरनरैः पूज्यो, धर्मी सौभाग्यवान् मुनिः / वदन्त्यधर्मभूयिष्ठ, दुर्भगं भावतो नरम् . 36 // 450 // // 451 // // 452 // // 453 // // 454 // // 455 //