________________ // 432 // // 433 // // 434 // // 435 // // 436 // // 437 // गृहपाशविमुक्तानां, तेषां या गुर्वधीनता / सा ग्रीवाभरणं नैव, रज्जुराकषर्णी भवे यूयमुक्ताः परायत्ताः, संचिन्त्येदं स्वमानसे। स्वाधीनत्वं मया स्वस्य, वचोऽध्वपथिकीकृतम् पश्यन्ति नान्तः कामान्धाः, पश्यन्तोऽपि बहिर्दशा / विकलाक्षास्ततस्ते स्युः, साधवस्तु न तादृशाः सज्जाक्षा, एव तद् ज्ञेया, नष्टबाह्यदृशोऽपि ते। विकलाक्षा मयेत्येते, प्रोक्ता नाहं तु तादृशः ये चाष्टावृणिकाः प्रोक्ताः, कर्माण्यष्ट प्रतीहि तान् / दानग्रहणिकैर्लोकाः, कदर्थ्यन्ते हि तै शम् धार्यन्ते क्षुधिताः क्वापि, तिर्यग्भवचतुष्पथे / . क्षिप्त्वा नरककारायां, पीड्यन्ते निष्कृपः क्वचित् चिन्तापङ्के विलोठ्यन्ते, क्वचिदाहत्य पार्णिना / पुण्याख्यो ह्रियते गेहोपस्करः क्वापि दुर्गतौ . साधूनां ते न बाधायै, शुद्धप्रायमृणं हि तैः / ग्रन्थेन गुरुदत्तेन, शोधयन्ति च ते सदा ऋणार्दितास्ततः प्रोक्ता, यूयं नाहं तु तादृशः / ऋणिका बाधका नैव, ऋणं शोधयतो हि मे कूरं कर्म भवो घोरो, रौद्रं रागादिमण्डलम् / जीवितं दृष्टनष्टं च, चलाः सर्वविभूतयः प्रमादो देहिनां शत्रुर्देहोऽयं क्षणभङ्गुरः / जरामृत्यू करगतो, भोगाः पर्यन्तदारुणाः इत्यादिकमनालोच्य, कामभोगाशयौ क्रमौ / प्रसार्य ज्ञानतत्पात्रसङ्गनेत्रे निमील्य च // 438 // // 439 // // 440 // // 441 // // 442 // // 443 //