________________ इत्थं विचेष्टमाना हि, सर्वे संसारवर्तिनः। सोन्मादा नायमुन्मादः साधूनां भूप ! विद्यते // 420 / इदं कारणमाश्रित्य, मया पूर्वं निवेदितम् / सोन्मादा भो जना ! यूयं, नाहमुन्मादबाधितः . // 421 // कषायाख्यः सदा तापो, घोरः संसारवर्तिनाम् / . . धृतिहन्ता च्युतशमस्वेदक्लेदभयङ्करः // 422 // दंदह्यन्ते हि ते तेन, लिप्तांङ्गाश्चन्दनैरपि / साधवस्तु सदा शान्ता, निस्तापास्तापसूदनाः // 423 // बाह्यस्तापोऽपि नो तेषां, शमिनामुपतापकृत् / तत् तापपीडिता यूयं, प्रोक्ता नाहं तु तादृशः // 424 // इदं पुत्रकलत्रादि, निर्मितं भिन्नकर्मभिः / कुटुम्बमेकवृक्षस्य, पक्षिसंघातसन्निभम्, // 425 // निःस्नेहं चञ्चलं तुच्छं, तथाऽपि हृदयप्रियम् / अज्ञातपरमार्थानां, बालानां प्रतिभासते // 426 // क्लिश्यन्ते च तदर्थन्ते, स्वयं कर्मकरा इव। . धनार्जनाय धावन्ति, मोहेनान्धा दिवानिशम् // 427 // विनिद्राः शेरते रात्रौ, भुञ्जतेऽपि सुखेन न / भ्रमन्ति पशुवच्छून्याः, पूरिता भूरिचिन्तया // 428 // परायत्ताः कुटुम्बस्य, तत्त्वार्थं ते न जानते / यत् कुटुम्बार्थपापस्य, भोक्ष्येऽहं फलमेकक: // 429 // मातापित्रादिसम्बन्धो, मृगतृष्णोपमोऽखिलः / सन्तोषामृतसौख्यं कस्तात्त्विकं तेन हारयेत् // 430 // कुटुम्बपञ्जरं त्यक्त्या, ये त्वेवं भावनाभृतः / . . निष्कान्ता न परायत्तास्ते स्वाधीनसुखाब्धयः . . // 431 //