________________ // 408 // // 409 // // 410 // // 411 // // 412 // // 413 // तच्छूलं भवमूढानामस्ति न वतिनां पुनः / विनिवृत्ताः परद्रोहात् ते हि सर्वहितावहाः एकाकारा सदा भूप ! जन्तवो भववर्तिनः / अनन्तदुःखदौर्गत्यवलीपलितपूरिताः मुखरन्ध्रगलल्लालाहालाहलमृषोदितैः / आशायष्टिमवष्टभ्य, गच्छन्तोऽपि स्खलत्क्रमाः गलत्सत्तर्करदना, निष्ठीवन्तः पदे पदे / कर्मोदयकृतक्षोभलोभश्लेष्माभिपीडिताः जराजर्जरिता दीना, अनुकम्प्या महात्मनाम् / विवेकयौवनं प्राप्तं, दीक्षाभोगोचितं न तैः अविद्याजन्म तैर्मूढैर्जरसैवातिलङ्गितम् / / न विद्याजन्म ते प्राप्ता, न मृता भावमृत्युना मुनिभिस्तु महाराज ! लब्धं विद्याऽभिधं जनुः / प्राप्तं विवेकतारुण्यं, बाल्यं नैवान्वभूयत . अप्राप्य तरुणाः सन्तो, जरां संसारदीर्घताम् / तथैव ते मरिष्यन्ति, नोत्पत्स्यन्ते यथा पुनः ज्वरशूलजराग्रस्ता, यूयं प्रोक्तास्ततो मया / ज्वरशूलजराहीनः, स्वस्य चात्मा प्रकाशितः कुर्वन्ति सदनुष्ठानं, न बुधैः प्रेरिता अपि / वारिता अपि कुर्वन्ति, पापानुष्ठानमादृताः मूर्ध्नि मोहरजः क्षिप्त्वा, प्रलपन्ति यथा तथा / परिधानं त्रपां मुक्त्वा, कामनृत्यं वितन्वते गले वल्गन्ति पूतानां, तृष्णाविलिप्तपाणयः / प्रवदन्तु तथा धर्मं, यथा भोगान् लभामहे // 414 // // 415 // // 416 // // 417 // - // 418 // // 419 // 34