________________ // 348 // ... | 349 // // 350 // // 351 // // 352 // // .353 // युष्मत्तोऽपि विरूपोऽहमाः पापा दुःखितोऽथवा / मां दुःखितं विरूपं च, यद् दृष्ट्वा हसथाधमाः ! कृष्णाः क्षुधापिपासार्ताः, कुष्टिनः खेदविह्वलाः / ज्वरशूलजराग्रस्ताः, सोन्मादास्तापपीडिताः यूयमेव परायत्ता, विकलाक्षा ऋणार्दिताः। यूयं च प्रचलायध्वं, नाहं भो बालिशा जनाः ! यूयं प्रविष्टा निःशङ्ख, भोः पापाः कालगह्वरे / येऽधुना हसथैवं मां, मुनिमुद्वीक्ष्य दुर्बलम् दृष्ट्वा तौ भास्कराकारी, ज्वलन्तावक्षिगोलको / विद्युदाभां च रसनां, श्रुत्वा च क्षोभिकां गिरम् हनूमत्कोपनिर्दग्धलङ्कादुर्गस्थरशंसाम् / / अवस्थां ययुरास्थानस्थिताः प्रक्षुभिता नराः बभाषे धवलो राजा, तदेदं विमलं प्रति / कुमार ! मर्त्यमात्रोऽयं, नास्ति दुर्लक्षलक्षणः मलाविलं गलत्कान्ति, प्रागभूदस्य लोचनम् / मूषोत्तप्तसुवर्णाभमधुना तु विजृम्भते / राहुग्रस्तेन्दुजातीयं, प्रागभूदस्य लोचनम् / देदीप्यतेऽधुना त्वेतत् तेजसा विश्वदाहिना भारती पुष्करावर्तगर्जितप्रतिपन्थिनीम् / रणधीरमपि स्वान्तं, श्रुत्वाऽस्य मम कम्पते तच्छनो मुनिवेषेण, देवोऽयं कोऽपि लक्ष्यते / क्रुद्धं प्रसादयाम्येनं, यथा भस्मीकरोति न प्रकृतौ स्थापितः श्रेयानन्तस्तेजोनिधिः खलु / कोपितोऽसौ वमत्यग्नि मथितारणिसन्निभः // 354 // // 355 // // 356 // // 357 // . // 358 // . // 359 // : 30