________________ // 324 // // 325 // // 326 // // 327 // // 328 // // 329 // शूलभृन्मुखभङ्गेन, दीर्घश्वासाज्ज्वरादितः / भग्ननेत्रो जराजीर्णः, शीर्णनासाकरक्रमः . चीवरैर्जीर्णमलिनैरलाबुयुगलेन च।। कम्बलेन सदण्डेन, युतो दारिद्वभाजनम् साक्षाद् ज्ञातोऽयमस्माभिर्नारको भूरिदुःखभूः। उक्तश्च भद्र ! मध्याह्ने, बम्भ्रमीषि किमीदृशम् आश्रित्य शीतलच्छायां, न तिष्ठसि सुखेन किम् / प्राहासौ गुरुनिर्देशाद्, भ्रमामि स्ववशोऽस्मि न तदा चिन्तितमस्माभिरहो कष्टं महत्तरम् / . इमां दशां गतस्यापि, पराधीनत्वमस्य यत् ततोऽभिहितमस्माभिर्गुरुः किं ते करिष्यति / प्राहासावृणिकाः सन्ति, ममाष्टौ यमसन्निभा: ग्रन्थदानेन तेभ्यो मां, गुरुर्मे मोचयिष्यति / विचिन्तितं तदाऽस्माभिरिदं कष्टं महत्तमम् यदीदृशदशस्यापि, दानिग्रहकदर्थना। . तन्मोचनदुराशा चेत्यतो दुःखी परोऽस्तु कः भाषितं च ततोऽस्माभिरेहि राजकुलेऽनघ ! / क्षणमोक्षो यथा ते स्याद्, दारिद्यं च विलीयते / प्राहासौ भवतां भद्राः !, कृतं मच्चिन्तयाऽनया / कदापि नैव मुच्येऽहं, मोचितो हि भवादृशैः इत्युक्त्वाऽसौ द्रुतं गच्छनीतोऽस्माभिर्बलादिह / सोन्मादोऽयमिति ज्ञात्वा, राजशासनकारिभिः ततो बभाषे धवलः, क्षितीशो मेऽतिकौतुकम् / ' पश्याम्येनं जवनिकां, तद् दूरीकुरुत द्रुतम् // 330 // // 331 // // 332 // // 333 // // 334 // // 335 // 28