________________ // 312 // // 313 // // 314 // // 315 // // 316 // // 317 // मोदितः काकलीगीतैः, स्फीतैर्नृत्यैस्ततोत्सवः / ललनाविभ्रमोवेलरतिसागरमध्यगः प्रमोदमर्पयन् पित्रोर्बन्धून् सिञ्चन्निवामृतैः / नेत्रयोर्जनयन् सर्वलोकानां कौमुदीमुदम् / नियुक्तपुरुषा दुःखदौर्गत्योपहतान् जनान् / प्रवेशयन्ति तत्रोच्वैस्तेषां दुःखं प्रणुद्यते इत्थं राज्ञि समाजे च, स्थिते संमदमेदुरे / केचिनियुक्तपुरुषाः, प्रविष्टाः शीतमन्दिरै नरं संस्थाष्य तैरेका, दत्ता जवनिकाऽन्तरा / व्यजिज्ञपंस्ते नत्वैवं, देवादेशवशंवदैः विचरद्भिर्महादुःखी, दृष्टोऽस्माभिरयं नरः। . अत्रानीतोऽतिबीभत्स, इति च स्थापितोऽन्तरे तच्छ्रुत्वा धवलोभ्शः, प्राह युष्माभिरीक्षितः / क्वायं कथं महादुःखी, तेष्वेकः प्राह चारुगी: देवादेशाद् वयमितो, गता दुःखिदिदृक्षवः / नगरं सततानन्दं, दृष्ट्वा प्राप्ता महाटवीम् दूरात् तत्र नरो दृष्टो, मध्याह्नार्ककराग्निना / भूतले तप्तलोहाभे, पादत्राणोज्झितो व्रजन्.. दूरादुच्चैरभिहितस्तिष्ठ भद्रेति तिष्ठत / * यूयं स्थितोऽहमित्युक्त्वा, गन्तुं प्रववृत्ते च सः आनीतस्तरुमूलेऽसौ, बलाद् गत्वा मया ततः / दवदग्ध इव स्थाणुर्दृष्टः सर्वैः कृशोऽसितः क्षुधितस्तापवान् खिनः, पिपासाशोषिताधरः / क्षरत्स्वेदो गलत्कुष्ठलुलत्कृमिकुलाकुलः // 318 // // 319 // // 320 // // 321 // // 322 // // 323 // 27