________________ // 300 // .: // 301 // // 302 // // 303 // // 304 // // 305 // निराकुलः सुखं भुते, यस्तु लोकेषु दुःखिषु / . प्रभुता तस्य का नाम, स हि कुक्षिम्भरिर्मतः दाहदीक्षागुरौ भीष्मे, तद् ग्रीष्मसमयेऽधुना / कुर्वन् ताताम्बयोराज्ञां, बन्धुवर्गेण संयुतः समित्रः सदनारामे, मनोनन्दननामके। करोम्यहं राजलीलां, विलासै रुचितोचितैः नियुज्यन्तां च पुरुषा, दु:खितानां गवेषकाः / समाहूय मया साधू, तेषां शर्मानुभाव्यताम् इमां पुत्रगिरं श्रुत्वा, मुदितौ पितरौ हृदि / ऊचतुश्च त्वया वत्स, साधूक्तं गुरुवत्सल ! राजाऽथाकारयत् सज्जं, छन्नं शीतगृहं घनैः / दलैरुपवनेऽब्जिन्या, हतधर्मदलैरिव , अभितः कदलीक्लृप्तशैत्यलीलोरुविभ्रमम् / वेष्टितं गृहनद्योधैरब्धिस्थद्वीपसन्निभम् लिप्तं चन्दनकर्पूरक्षोर्मोदैरिवाहतैः / . हृतघर्मयशोवल्लिमृणालोशिरराजितम् कृतानि तत्र शिशिरैः, शयनीयानि पल्लवैः / मृदूनि सुखदान्युच्चैः कल्पितान्यासनानि च . कुमारो विमलस्तत्र, सह लोकैः प्रवेशितः / स्थितोऽसौ तत्र लिप्ताङ्गः, सरसैश्चन्दनद्रवैः पाटलादामकलितो, गुण्डितश्चन्द्ररेणुना / मुक्तादामाभिरामश्रीमल्लिकापुष्पराजितः वीज्यमानस्तालवृन्तैः, सूक्ष्मकोमलवस्त्रभृत् / हारविभ्राजितश्चारुताम्बूलारुणिताधरः // 306 // // 307 // // 308 // // 309 // // 310 //