________________ // 288 // // 289 // // 290 // // 291 // // 292 // // 293 // ततः प्रविष्टाः सर्वेऽपि, नगरे मोदपूरिताः / स्वस्थानं रत्नचूडोऽगात्, स्थित्वा द्वित्रांश्च वासरान् विमलस्तत आरभ्य; मुक्तेरासन्नभावतः / तानवात् कर्मजालस्य, सद्भावाभ्यासपाटवात् प्राबल्याज्जीववीर्यस्य, ज्ञानशुद्धः शमोदयात् / राज्यश्रियं नाद्रियते, वपुर्भूषां करोति न बन्धुरग्रामधर्मस्य, न च गन्धमपीच्छति / कालं नयति सद्ध्यानाद् विरक्तो भवचारकात् तं तथाविधमालोक्य, पित्रोश्चिन्तोदपद्यत / यदयं यौवनस्थोऽपि, विषयेषु न लीयते तदेतदस्य चरितं, लोकातीतं विजृम्भते / मुनिवद् वर्तमानेऽस्मिन्, राज्यं निष्फलमावयोः विषयेषु कुमारोऽयं, तत् प्रवर्तिष्यते कथम् / स्वयमभ्यर्थनीयोऽयं, दाक्षिण्यान्मन्यते यथा इति सिद्धान्तयित्वा तौ, गतौ विमलसन्निधौ / ऊचतुश्च सुतासि त्वं, राज्यधुर्धरणक्षमः कृतार्थयसि तारुण्यं, किं न तदारसंग्रहैः / भुले भोगान् न किं किंक, न वर्द्धयसि सन्ततिम् व्यचिन्ति विमलेनेदं, सूक्तमाभ्यां किलानयोः / उपायः प्रतिबोधस्य, भविष्यत्ययमेव हि . ततो बभाषे विमलः, प्रमाणं पितृगीर्मम / किन्त्वेष मदभिप्रायः, पितृभ्यामवधार्यताम् सुखं संपाद्य सर्वेषां, हत्वा दुःखं च दुःखिनाम् / / सुन्दरं यत् स्वयं राज्यप्रभुत्वमनुभूयते // 294 // // 295 // // 296 // // 297 // // 298 // // 299 // 25 .