________________ // 276 // // 277 // // 278 // // 279 // // 280 // // 281 // भाव्यं चास्मत्प्रवेशेन, भवता चक्रवर्तिना। विद्याधरबलं चेदं, द्वारि तिष्ठति भृत्यवत् . . ततः प्रविश्य प्रणतं, तत् प्रातस्तूर्यनिस्वनैः / सह वैतालिकानां च, प्रसृता मधुरा गिरः तदाऽचिन्ति मया नूनमिदं धर्मस्य पाटवम् / अतकितोपनम्रा यद् विद्याः सिद्धा ममाखिलाः हर्षस्थानं न चेदं मे, यद् विघ्नोऽयमुपस्थितः / विमलेन समं दीक्षाग्रहणं न भविष्यति / उक्तो हेममयो बन्धः पुण्यं पुण्यानुबन्ध्यपि / विद्याभृच्चक्रवर्तित्वमुक्तं मे चन्दनेन च तन्मे का गतिरित्येवं, भृशं भावयतस्तनौ / विद्याः प्रविष्टा राज्ये चाभिषिक्तोऽहं नभश्चरैः नवराज्योचितं कृत्यं, कुर्वतो मे कियत्स्वपि / ततो दिनेष्वतीतेषु, त्वदादेशो हृदि स्मृतः चिन्तितं च मया सूरिन बुधाख्यो गवेषितः / नानीतो विमलाभ्यर्णं, प्रमत्तत्वमहो मम भ्रान्तो भूमण्डलं भूरि, ततोऽहं तं गवेषयन् / दृष्टश्चैकत्र नगरे, त्वद्वार्ता च निवेदिता तेनोक्तं भद्र ! गच्छ त्वं, वदेदं विमलाय च / पश्चादेष्याम्यहमयं, हेतुस्तबन्धुबोधने प्रच्छनो रत्नचूडेन, विमलायोदितस्ततः / बुधाचार्यस्य सन्देशः, स तु नाकर्णितो मया रत्नचूडो जगावेवं, विलम्बोऽभून्ममाधुना / नानीतो बुधसूरिश्च, विमलः प्राह शोभनम् 24 // 282 // // 283 // // 284 // // 285 // // 286 // // 287 //