________________ // 1096 // // 1097 // // 1098 // // 1099 // // 1100 / / // 1101 // तदा तव प्रयास्यन्ति, सन्देहाः सकलाः क्षयम् / ज्ञास्यते च यथा नास्ति, परं तत्त्वं जिनागमात् प्रपद्य नष्टसन्देहस्ततस्तद्वचनं गुरोः / पुण्डरीकमुनिश्चक्रे, सविशेषश्रुतोद्यमम् जातो गुरुप्रसादेन, द्वादशाङ्गाब्धिपारगः / अनन्तगमपर्यायज्ञानी सातिशयः क्रमात् ततः सगच्छोऽनुज्ञातोऽनुयोगस्तस्य सूरिभिः / दत्तं सूरिपदं स्वीयं, स्वस्यात्मा चानृणीकृतः कृताऽमरनरैर्देवसङ्घपूजा दिनाष्टकम् / तस्य सूरिपदस्योच्चैः, स्थापनाया महोत्सवे ततः समन्तभद्राख्याः, सूरयो देहपञ्जरम् / हित्वा शिवपुरं प्राप्ताः, कृतार्थाः क्षीणकल्मषाः अथ लब्धावधिमनःपर्यायज्ञानवैभवः / / पुण्डरीकाभिधः सूरिर्दीपयामास शासनम् . शिष्यानिष्पाद्य देशेषु, विहृत्य जिनशासनम् / प्रभाव्य च चकारासौ, शुद्धसंलेखनां सुधीः स्वपदे स्थापितः प्राज्ञस्तेन साधुर्धनेश्वरः / कृतानुज्ञं स तं सर्वसमक्षं चैवमन्वशात् धन्यस्त्वं येन विज्ञातो, महाशयजिनागमः / . यस्मै चेदं पदं दत्तं, महाधीरैनिषेवितम् / धन्येभ्यो दीयते ह्येतद्, धन्या एवास्य पारगाः / गत्वाऽस्य पारं धन्याश्च, पारं यान्ति भवोदधेः / कुर्वन्ति भवभीतानां, धन्यास्त्राणं च देहिनः / शरणं च प्रपन्नास्त्वां सर्वेऽमी शरणोचितम् एते हि भावरोगास्त्विं च भावभिषग्वरः / यत्नेन मोचनीयास्तद्, भावरोगादमी त्वया . .... 277 // 1102 // // 1103 // // 1104 // // 1105 // // 1106 // // 1107 // // 1108 //