________________ रजोवशादवैराग्यमनैश्वर्यं तमोवशात् / तमसश्चैव माहात्म्यादज्ञानाधर्मसंभवः // 1070 // तत् सत्त्वं मलिनीभूतं, हेतुः संसारदुःखयोः / तदेव निर्मलं वीर्य, कारणं सुखमोक्षयोः // 1071 // ध्यानव्रततपोमुख्यास्तल्लाभार्थमिमेऽखिलाः / गीयन्ते हेतवश्चित्रास्तत् तत्त्वं पारमेश्वरम् // 1072 // ज्ञानं तद्गोचरं श्रेष्ठ, श्रद्धानं च तदाश्रयम् / क्रिया च वृद्धिकृत् तस्य, मोक्षमार्गः स कीर्तितः // 1073 // एतच्च तत्त्वं वैर्जातं, ध्रुवं तेषां भ्रमः कुतः / केवलं वारयन्तीमे, तत्त्वभ्रष्टं कृपापराः // 1074 // तदेको मोक्षमार्गस्ते, तात्त्विक: कीर्तितो मया / पूर्णानन्दमयो ज्ञेयो, मोक्षोऽप्येकोऽनया दिशा - // 1075 // संसिद्धिनिर्वृतिः शान्तिः, शिवमक्षरमव्ययम् / अमृतं ब्रह्म निर्वाणं, ध्वनयस्तस्य वाचकाः // 1076 // सर्वकर्मक्षयादेष, सर्वतन्त्रे व्यवस्थितः / / ज्ञानदर्शनसद्वीर्यसुखसाम्राज्यलक्षण: // 1077 // गुणातीतदशारूपो, यैरेष परिकीर्तितः / तैरप्यत्र न पर्यस्ता, चिद्रूपात्मव्यवस्थितिः // 1078 // यैरशेषगुणोच्छेदरूपोऽसौ परिंगीयते / स्वभावसुखसंवित्तिः, शक्या क्षेप्तुं न तैरपि // 1079 // दुःखाभावोऽपि नावेद्यः, पुरुषार्थतयेष्यते / न हि मूर्छाद्यवस्थार्थं, प्रवृत्तो दृश्यते सुधीः // 1080 // अशरीरं वा वसन्तं, स्पृशतो न प्रियाप्रिये / इत्यद्वन्द्वसुखात्मैको, मोक्षो मानप्रतिष्ठितः // 1081 // सर्वथा निर्मलं रूपमात्मनो मोक्ष उच्यते / इत्थं ह्यभेदविज्ञाने, शब्दभेदेन को भ्रमः // 1082 // ..... . 275