________________ // 1008 // // 1009 // // 1010 // // 1011 // . // 1012 // // 1013 // तदेवं सर्वतीर्थेषु, भावात् सर्वगुणात्मकम् / जैनतीर्थं स्थितं ज्ञेयं, न लिङ्गं धर्मकारणम् अतो यदुक्तमार्येण, मोक्षं किं तीथिका अपि / साधयेयुद्धानबलाच्चारु तत्रेदमुत्तरम् शुद्धानुष्ठानविकलं, ध्यानं हास्यं विवेकिनाम् / शुद्धं पुनरनुष्ठानं, न स्यात् सिद्धान्तमन्तरा सर्वोपाधिविशुद्धात्मा, तीथिकोऽपि कथञ्चन / यश्च स्यात् स तु भावेन, वर्तते जिनशास्रने जैनेन्द्रमेव तेनैकं, शासनं भवनाशनम् / . भवच्छिदो भवन्त्येव, तत्रस्थास्तीथिका अपि आरोग्यकारि दोषच्छिद्, यथा लोके सुभेषजम् / प्रयुक्तं कूटभिषजाऽप्याप्तवैद्यस्य सम्मतम् तथा घुणाक्षरन्यायाद्, वचनं गुणकारि यत् / परशास्त्रस्थमपि तज्जिनवैद्यस्य सम्मतम् कुसम्प्रदायापतिताद्, यत्नात् तन्न गुणावहम् / . अतो घुणाक्षरन्यायात्, तादृग् योग्यतयेष्यते साऽवच्छिनत्ति तस्येष्टहेतुतां चानुमोद्यताम् / गुणकृद् भावजैनानामतस्तत् सम्मतं सताम् क्रियते यत् पुनः कर्म, चित्तमालिन्यकारकम् / यतिश्रावकरूपेण, तज्जिनाज्ञाबहिश्चरम् व्यवहारोऽपि गुणकृद्, भावोपष्टम्भतो भवेत् / / सर्वथा भावहीनस्तु, स ज्ञेयो भववृद्धिकृत् भावतीर्थं समालम्ब्य, व्यापकं जैनमित्यदः / . . जनास्तरन्ति दुःखाब्धिं, पर्याप्तं वेषचिन्तया // 1014 // // 1015 // // 1016 // // 1017 // // 1018 // // 1019 // 270