________________ कुतर्कवादमौखर्याज्जने तेऽपि तथाविधे। गताः प्रसिद्धिं चौराणां, प्रागल्भ्यं हि महत्तरम् .. // 984 // तीर्णा(.)यथाऽऽशयं ते च, नानारुचिभृतां नृणाम् / . केषाञ्चित् केचिदेवेह, प्रतिभान्ति न चापरे // 985 // कणभक्षाक्षपादाद्याः, शास्त्रकर्माणि यान्यथ / . . शिष्येभ्योऽदर्शयंस्तेभ्यो, वैद्यशालेयमुत्थिता // 986 // इत्थं च जिनसद्वैद्यशालायां कर्मरोगिणः / धन्याश्चिकित्सां कुर्वाणा, भवन्त्येव हि,नीरुजः // 987 // आस्तिकेषु च तीर्थेषु, कर्मरोगस्य तानवम् / यद् दृश्यते यश्च सर्वमोक्षो वा श्रूयते क्वचित् // 988 // सोऽपि स्वशास्त्रबद्धानां सर्वज्ञवचसां गुणः / अपुनर्बन्धकस्य स्यात्, तद्रुच्या कर्मतानवम् // 989 // अनुष्ठानं हि तस्योक्तं, चित्रं दर्शनभेदतः / त्यक्तविप्रतिपन्नाशं, पर्यवस्यत् फलोदये // 990 // तस्य सर्वेकवाक्यत्वादहिंसाद्येव सम्मतम् / . तत्त्वं निरञ्जनो देवो, गुरुग्रन्थविवर्जितः . // 991 // इत्थं सदोघसंज्ञानात्, सत्यार्थपदरोचके / सूक्ष्मबोधं विनाऽपि स्यात्, कर्मरोगस्य तानवम् // 992 // अतिशुद्धिवशाद् भावसम्यक्त्वादिक्रमेण तु / जायेत सर्वमोक्षोऽपि, जिनवाक्यानुसारिणाम् // 993 // . यद्वा जातिस्मरादीनां, वचो जैनं हृदि स्थितम् / / तेषामास्तिकतीर्थ्यानां, कर्मरोगं क्षयं नयेत् // 994 // दोषत्रयं शरीरस्थं, यथा वैद्यश्चिकित्सति / ... . रागद्वेषमहामोहांस्तथा सर्वज्ञ एव हि . // 995 // 268