________________ लोकाः पृथक् पृथग् भिन्नरुचयस्ते च रोगिणः / केषाञ्चित् केचिदेवेष्टाः, कूटवैद्येषु तेष्वतः // 960 // प्रसिद्धा वैद्यशालास्ताः, सर्वाः शिष्यप्रतीच्छकैः / महावैद्याश्च तेऽभूवन, सर्वे पाठितसंहिताः // 961 // ततो मौलमहावैद्योऽनादृतो बहुभिर्जनैः। कुर्वते तत्कियां ये च, ते भवन्त्येव नीरुजः // 962 // यथा जीवति सद्वैद्ये, तस्मिन् रोगाः क्षयं ययुः / तस्यां सुवैद्यशालायां, क्रियाविधिकृतां नृणाम् // 963 // तथा मृतेऽपि तस्मिन् सा, जाता रोगविनाशिनी / .. शाला सकललोकानां, सविनेया ससंहिता // 964 // ये पुनः कूटवैद्यानां, रोगिणः शरणं गताः / अनाथा रोगजालेन, पीडिता एव ते 'मृताः // 965 // जीवत्सु तेषु तच्छाला, यथाऽनर्थकरी नृणाम् / मृतेष्वपि तथैवाभूत्, सशिष्या च ससंहिता ... // 966 // यश्च तास्वपि.केषाञ्चिद्, वैद्यशालासु दृश्यते / रोगाणां तानवाद् दैवात् सर्वमोक्षेण वा गुणः // 967 // . सोऽपि सद्वैद्यशास्त्राब्धिगृहीतवचसां गुणः / एकान्तविपरीतानां, संहितासु च सोऽपि न / // 968 // किमन्यत् सा महावैद्यशालैका रोगनाशिनी / तत्संहितानुसारात् तु शेषा अपि तथाविधाः // 969 // महावैद्यो हि जानीते, दोषं तच्छमनं तथा / कूटवैद्या न जानन्ति, स्वयं तत्त्वविरोधत: // 970 // गुणो घुणाक्षरन्यायाद्, यश्च तेभ्योऽपि जायतें। सद्वैद्य एव तत्रापि, तत्त्वनीत्या चिकित्सकः / // 971 // . 26