________________ // 948 // // 949 // // 950 // // 951 // // 952 // // 953 // भवेयुस्तीर्थिका मुक्तेस्तत् किं सर्वेऽपि साधकाः / साध्ये मोक्षे तथैकस्मिन्, केयं ध्येयविभिन्नता छित्त्वेदं वाक्कुठारेण, सन्देहं गहनं मम / मोक्षमार्ग वितिमिरं, विधातुं यूयमहथ समन्तभद्रगुरवस्ततः प्राहुर्महाधियः / आर्य ! त्वमल्पगीतार्थस्तत्तात्पर्यं न बुध्यसे तीर्थ्याः सर्वेऽपि खल्वेते, कूटवैद्यसमा मताः / सद्वैद्यजिनशास्त्रार्थपल्लवग्रहगर्विताः प्रोच्यन्ते भ्रान्तिनाशार्थमत्र वैद्यकथा यथा / एकस्मिन् नगरे भूरिरोगग्रस्तजनाकुले एक एव महावैद्यो, दिव्यज्ञान्यस्ति कश्चन / संहितानां समस्तानां, स्रष्टा रोगौघनाशकः नाधन्यत्वेन तल्लोकाः, प्रपद्यन्ते तथापि तम् / .. ये केऽपि धन्यमूर्द्धन्याः , प्रपद्यन्ते त एव तम् - स च दत्ते स्वशिष्येभ्यस्तव्याख्यानमनारतम् / अन्यधूर्तरुपश्रुत्या(त्य), तत्प्रसङ्गागतैधृतम् ततस्तल्लवमात्रेण, तुष्टैस्तैवैद्यकं कृतम् / स्वपूजार्थमधन्यानां, प्रतिभातं च तन्नृणाम् / / ततस्तैः पण्डितंमन्यैः, रचिताः स्वस्वसंहिताः / वचांसि ग्रथयामासुः, केचित् तासु नवान्यपि धृतानि तान्युपश्रुत्या, सद्वैद्यवचनानि च / कानिचित् स्थापयामासुस्तथा भङ्ग्यन्तरेण च सद्वैद्यवचनेभ्योऽन्यैरतिपाण्डित्यमानिभिः / एकान्तवैपरीत्येन, संहिता रचिता ध्रुवम् // 954 // // 955 // // 956 // // 957 // // 958 // // 959 // 25