________________ // 936 // // 937 // // 938 // . // 939 // // 940 // // 941 // विशुद्ध बिन्दुमेवाहुरन्ये तु स्फटिकोपमम् / ज्ञानहेतुं प्रसर्पन्तं, तिर्यगूर्ध्वमधस्तथा नासाग्रे भ्रूलतामध्ये, बिन्दुमेव तथाऽपरे / तुषारहारविमलं, ध्येयमाहुश्चलस्थिरम् आग्नेये मण्डले स स्यान्मीलितो(ते) रक्तवर्णकः / माहेन्द्रे पीतक: कृष्णो, वायव्ये वारुणे सितः पीतः सुन्दरचित्तेन, रक्तस्तापेषु चिन्त्यते / कृष्णोऽभिचारके कार्ये, पुष्टिदो धवलो मतः प्राहुः परे तु संशोध्यो, नाडीमार्गो मुमुक्षुणा / इडापिङ्गलयोर्जेयं, नाड्योः संचारकर्म च नाडीचक्रप्रचारश्च, विज्ञेयो दक्षिणेतरः / तद्द्वारैव च विज्ञेयं, बहिः कालबलादिकम् ओंकारोच्चारणादेव, घण्टानादायतात् परे / पद्मासने निविष्टस्य, शान्तिप्राप्ति समभ्यधुः अन्ये तु प्राहुरानाभेः, प्राणतन्तुं शनैः शनैः / / मूर्धान्तस्तालुरन्ध्रेण, निर्गच्छन्तं विचिन्तयेत् स्थितं हृदयराजीवे, मण्डले वा त्रयीतनोः / पुमांसमाद्यं निष्पापं, प्राहुयेयतया परे पुमांसं परमं ध्येयं, नित्यं हृद्योम्नि संस्थितम् / अपरे विलसत्कान्तिलताकीर्णं विदुर्बुधाः आकाशमात्रमपरे, विश्वमन्ये चराचरम् / आत्मस्थं चिन्त्यमित्याहुरपरे ब्रह्म शाश्वतम् इत्थं च भगवद्भिर्मे, ध्यानयोगो यथोदितः / ' सारस्तीर्थैरपि तथा, स एव प्रतिपादितः // 942 // // 943 // // 944 // // 945 // // 946 // // 947 // 264