________________ // 924 // // 925 // // 926 // // 927 // // 928 // पच्यते // 929 // ततस्तैः कथितं तत्त्वं, परस्परविलक्षणम् / तथा ह्येके जगुः सर्वं, हिंसादि क्रियतामिह केवलं बुद्धिलेपोऽत्रं, रक्षणीयो मुमुक्षुणा / कर्मण्यकर्मविज्ञाने, कुतः कर्म यदुच्यते "कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः / स बुद्धिमान् मनुष्येषु, स युक्तः कृत्स्नकर्मकृत् यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् / आकाशमिव पङ्केन, नासौ पापेन लिप्यते" अन्येऽभ्यधुर्विधायापि, पापं ये देहधारिणः / महेश्वरं स्मरन्त्यन्तस्ते मुच्यन्ते न संशयः छित्त्वा भित्त्वा च भूतानि, कृत्वा पापशतानि च / स्मरन् देवं विरूपाक्षं, सर्वपापैः प्रमुच्यते विष्णुध्यानमुदाजहुः परे पापविशुद्धये / पवित्रं परमानन्ददायकं यदिदं स्मृतम् अपवित्रः पवित्रो वा, सर्वावस्थागतोऽपि वा / यः स्मरेत् पुण्डरीकाक्षं, स बाह्याभ्यन्तरः शुचिः ऋचमन्ये तु गायत्री, प्राहुः पापनिबर्हणीम् / मोक्षस्य साधनं प्राहुरन्ये वायुजयं बुधाः . हृदि स्थितं यद्ध्यानेन, पुण्डरीकं विजृम्भते / विकस्वरदलं रम्यं, मनोऽलिसुखदायकम् पदे मनोऽलिः परमे, तद्द्वारेण निलीयते / लक्ष्यते तस्य यो नादस्तत् तत्त्वमपरे जगुः रेचकं पूरकं चैव, कुम्भकं च तथा परे / अस्यैव पुण्डरीकस्य, प्राहुर्वायुं विघाटकम् 253 // 930 // // 931 // // 932 // // 933 // // 934 // // 935 //