________________ इतश्च पौण्डरीकोऽपि, कृतश्रुतदृढोद्यमः / जातः क्रमेण गीतार्थो, भावितात्मा जितेन्द्रियः // 912 // पप्रच्छ सारं जिज्ञासुस्ततोऽसौ विनयाद् गुरुम् / भगवन् ! द्वादशाङ्गस्य, किं सारमिति कथ्यताम् // 913 // . समन्तभद्रगुखस्ततः प्राहुर्महाशयाः / ध्यानयोगो विनिर्दिष्टः, सारोऽत्र जिनशासने - // 914 // साधूनां श्रावकाणां च, मूलॊत्तरगुणैः क्रिया / घटिता निखिला बाह्या, ध्यानयोगार्थमीरिता // 915 // . मनःप्रसादो मुक्त्यर्थं, साध्यः खलु मनीषिणा / ऐकाग्र्यापरपर्यायो, ध्यानयोगः स एव च // 916 // विषयान्तरसंचारनिरोधात् तच्च जायते / . आलम्बनं तदर्थं च, मन्यते नैष्ठिकी क्रिया // 917 // श्रुत्वा पैशाचिकाख्यानं, कुलवध्वाश्च रक्षणम् / नित्यं संयमयोगेषु, व्यापृतात्मा भवेन्मुनिः // 918 // आत्मारामतया यस्तु, व्युत्थानं न प्रपद्यते / तस्य बाह्यक्रियासाध्यं, सिद्धमेव तदुच्यते // 919 // आरुरुक्षुर्मुनिया॑नं, श्रयेद् बाह्यक्रियामपि / ध्यानारूढः शमादेव, शुध्यत्यन्तर्गतक्रियः // 920 // ध्यानयोगः शुभः सारः, सर्वप्रवचनस्य तत् / शेषानुष्ठानमप्यूह्यं, सारं तस्याङ्गभावतः // 921 // श्रुत्वा गुरोरिमां वाचं, पौण्डरीकमहामुनिः / कृताञ्जलिः पुनः प्रोचे, स्वशङ्काऽपनिनीषया // 922 // भदन्त ! मोक्षमार्गेऽभूद, बाल्येऽपि मम कौतुकम् / ततः पृष्टा मया सर्वे, तद्रहस्यं कुतीर्थिकाः // 923 // 22