________________ मया प्रोक्तं श्रुतः प्रातर्भवानत्र समागतः / तेनागतोऽहमप्यत्र, त्रस्तश्च त्वददर्शनात् // 204 // यास्यामि स्वस्थतां दृष्टे, साम्प्रतं तु द्रुतं त्वयि / विमलोऽवक् सुसंपन्नं, गच्छावो जिनमन्दिरैः // 205 / / मयेत्थमस्त्विति प्रोक्ते, गतौ तत्राविशत् ततः / / विमलोऽभ्यन्तरे द्वारदेशेऽहं चकितः स्थितः // 206 // व्यचिन्ति रत्नहर्तारं, नूनं मां ज्ञातवानयम् / तन्नश्यामि द्रुतं नो चेद्, रत्नं लास्यत्ययं बलात् // 207 // विदेशं यामि नात्रास्मान्मोक्षस्तु स्यात् स्थितस्य मे / नष्टस्ततस्त्र्यहेणागामष्टाविंशतियोजनीम् // 208 // अद्राक्षं तत्र पाषाणं, रत्नग्रन्थौ विमुद्रिते / कृच्छ्रेण चेतनां प्राप्तो, हा हतोऽस्मीति मूर्च्छितः // 209 // इष्टप्रदेशाभिमुखं, वलितस्तज्जिहीर्षया / पुनः प्रवृद्धानुशयः, स्तेयमायाविलुप्तधी: // 210 // इतश्च विमलेनाह, जिनगेहानिरीयुषा / न दृष्टो जातचिन्तेन, वने शेषे गवेषितः // 211 // तत्रानासाद्य सर्वत्रान्वेषितो नगरेऽप्यहम् / तत्राप्यदृष्ट्वा सर्वत्रान्वेषकाः प्रेषिता नराः // 212 // दृष्टस्तेष्वहमेकेनागच्छत्रुक्तश्च वर्तते / विमलस्त्वद्वियोगेन, वामदेव ! भृशातुरः // 213 // ततो ध्यातं मया नाहं, विमलेनास्मि लक्षितः / गतं भयं मे नीतोऽहं, पार्वं च विमलस्य तैः // 214 // स्नेहेनालिङ्गितस्तेन, द्वाभ्यां मुक्ताऽश्रुधोरणी / . . सव्याजाव्याजचित्ताभ्यां, पप्रच्छ विमलस्ततः / // 215 / / 18