________________ // 732 // // 733 // // 734 // // 735 // // 736 // // 737 // सूर्यकान्तसमे दीसे, जीववीर्यवरासने / क्षीणं तमो भगवतीवाक्यसूर्यांशुभिश्च तत् आयोधनं ततो लग्नं, चित्तवृत्तौ बलद्वये / सम्यग्दर्शनसद्बोधौ, हत्वाऽरीन् मामुपागतौ ध्यातं मया भगवती, किमेषा परिजल्पति / ईहापोहं गतस्यैवं, जातिस्मृतिरभून्मम गुणधारणकालीना, स्मृताऽवस्था शुभाशयात् / ततः सद्बोधमित्रं मामवधिः समुपागतः असंख्येया मया दृष्टास्तबलाद् द्वीपवार्धयः / भवप्रपञ्चोऽसंख्येयः, साक्षादेव विलोकितः सिंहाचार्यभवाभ्यस्तं, सर्वैतिशयैः सह / निर्मलं पूर्वपर्यन्तं, प्रादुर्भूतं श्रुतं मम स्मृतः संसारविस्तारो, निर्मलाचार्यकीर्तितः / - असंख्येयः स्फुटं दृष्टस्तदारात्तु भवभ्रमः . धृत्वाऽहं तस्कराकारं, ततः पूर्वोक्तकारणात् / इहागतस्तदारात् तु, वार्ता ज्ञातैव ते मम ततो भद्रे सुललिते !, ज्ञात्वा मदनमञ्जरीम् / त्वां प्रबोधयितुं मुग्धां, जातस्नेहकृपाभरः बहुमानाद् भवत्वस्याः, सर्वज्ञागमगोचसत् / तपस्विन्याः क्लिष्टकर्मक्षय इत्यवधारयन् प्रभोः सदागमस्यास्य, प्रभावादखिलं ह्यदः / अहं वेग्रीति जनयन्, बहुमानं सदागमे संक्षेपतोऽपि षण्मासवाच्यं माहात्म्यतः प्रभोः / सर्व चरित्रं प्रहरत्रयेण स्म वदामि ते FREHELHHETTHE // 738 // // 739 // // 740 // // 741 // // 742 // // 743 // 24