________________ तदिदं भावचौर्यं मे, ममेदृक् च विडम्बना / एवं च भद्रे ! जानामि, वृत्तान्तं स्वपराश्रयम् / // 744 // श्रुत्वा चेदं सुललिता, विस्मिता भाविता हृदि / .... पौण्डरीकोऽपि भावार्थ, जग्राहैतद्गतं मनाक् // 745 / / अवादीच्चार्य ! किञ्चित् तद्, वृत्तावस्ति तवाधुना / ततोऽनुसुन्दरेणोक्तं, यावत् संवेगमागतः // 746 // प्रक्रान्तोऽहं चरित्रं भो, वक्तुं स्वं भवतां पुरः / / तावच्चारित्रधर्मोऽसौ, चलितो मम सम्मुखम् // 747 // तेन चागच्छता चारूकृतं सात्त्विकमानसम् / .. नगरं शुभ्रतां नीतो, विवेकगिरिपर्वतः // 748 // . शिखरं चाप्रमत्तत्वं, कृतमुच्चस्तरां शुचि / भूयोऽपि भूषितं जैनपुरमुत्तोरणावलि , // 749 // स च चित्तसमाधानमण्डपः परिमण्डितः / सा च निःस्पृहता वेदिर्भूयः सज्जा विनिर्मिता कृतं तच्चोल्लसत्कान्ति जीववीर्यं वरासनम् / . सर्वशक्त्या निजं सैन्यं, निखिलं परितोषितम् // 751 // महामोहबलं लग्नं, तस्य चागच्छतः पथि / सर्वप्राणेन तद् युद्ध, द्वयोर्दृष्टं स्फुटं मया // 752 // ततः सम्यक्त्वसद्बोधयुक्तेन स नृपो मया / जातः प्रदत्तावष्टम्भो, जयलक्ष्मीनिकेतनम् // 753 // चिरन्तनं हतारातिर्गृहीत्वाऽन्तःपुरं ततः / चारित्रधर्मराजेन्द्रो, मदभ्यर्णमुपागतः // 754 // द्विषस्ते हृतसर्वस्वाः किञ्चिच्छेषस्वजीविताः / . . लीनास्तिष्ठन्त्यदश्चित्तवृत्तावस्ति माधुना . // 755 // . 248 // 750 //