________________ // 432 // // 433 // // 434 // // 435 // // 436 // // 437 // घोरमायोधनं लग्नं, ततश्च बलयोस्तयोः / परस्परसमाह्वानरोषनिर्घोषतो मिथः . . . एकतो विधुवच्छुभ्रं, भ्रमरच्छवि चान्यतः / बलद्वयं मिलद्गङ्गाकालिन्दीजलवद् बभौ भग्नयोधं हतगजं, छित्रच्छन्नं पतद्रथम् / बलयोस्तदभूद् युद्धं, गुरुपौरुषशालिनोः जयः स्यादिह कस्येति, द्रष्टुं संशयसंक्रमात् / . जयश्रीः संशयारूढा, मन्ये नैकमपि श्रिता स कर्मपरिणामाख्यस्तदैवं पर्यचिन्तयत् / . पक्षपातं स्फुटं कुर्वे, कस्य साधारणो ह्यहम् मोहाद्या भिन्नचित्ताः स्युः, सद्बोधस्य स्फुटे कृते / पक्षपाते तदा तैः स्यात्, सार्द्ध चाकाण्डविड्वरम् न च तन्मम युक्तं यत्, साम्प्रतं मेऽस्ति वल्लभम् / बलं संसारिजीवस्य, रुच्या चारित्रभूपतेः दोषेष्वेव निबध्नीयाद्, भूयोऽप्येष यदा मनः / / तदा चिरन्तनस्थित्या, गतिर्मोहादयो मम तन्न तेषां मनो भेद्यं, पोष्यं धर्मबलं च मे / इति तेन भवच्चित्ते, वर्धिता वरभावना यावत् त्वं भावनासौधमारूढो गुणधारण ! / तावत् सद्बोधसहितं, बलं प्रबलतां गतम् स्फीते त्वद्भावनामन्त्रे, मोहाद्याः क्षीणतां गताः / ततः सद्बोधसैन्येन, सर्वं मोहबलं हतम् दत्तः प्रहारः सर्वेषां, महामोहादिविद्विषाम् / .. चूर्णितश्च विशेषेण, ज्ञानसंवरणो नृपः . // 438 // // 439 // // 440 // // 441 // // 442 // . // 443 //