________________ तदेते सद्गुणास्तासामुपलम्भाय भूभुजा / दशानामपि कंन्यानां, संस्तोतव्याः प्रयत्नतः // 396 // राज्ञोऽस्य कुर्वतश्चैवं, स कर्मपरिणामराट् / चारित्रधर्मराजाद्यं, स्वबलं दर्शयिष्यति // 397 // अनुरूपगुणाभ्यासाद, रञ्जनीयाश्च ते भटाः / रक्तास्तेऽस्य हनिष्यन्ति, मोहादिद्विषतां बलम् // 398 // भावराज्यं ततो लब्वा, निष्कण्टकमयं नृपः / कान्ताभिर्विलसंस्ताभिः प्रकृष्टं शर्म लप्स्यते // 399 // ततः कन्दमुनिः प्राह, कालेन कियता पुनः / महाराजस्य भगवन् ! सेत्स्यतीदं प्रयोजनम् // 400 // भगवानाह षण्मास्या, मयोक्तं त्वरयाम्यहम् / आदातुं भगवन् ! दीक्षां, विलम्बस्तदियान् वृथा // 401 // सूरिराह महाराज !, त्वरयाऽत्र कृतं तव / इयमेव हि सद्दीक्षा, यमदुक्तस्य पालनम् // 402 // द्रव्यलिङ्गं हि भवता, प्राग् गृहीतमनन्तशः / विनोक्तस्थितिमातं तु न विशिष्टफलं ततः // 403 // कुर्वस्तिष्ठोपदिष्टं मे, मा त्वरिष्ठास्ततोऽनघ ! / प्राह कन्दमुनिः स्वामिस्तद्विवाहे क्रमोऽस्य कः // 404 // सूरिराहार्यपाद्येऽस्य, मदुक्तमनुतिष्ठतः / विद्यां कन्यां समादाय, सद्बोधः समुपेष्यति // 405 // ग्राहयित्वाऽस्य तां कन्यां, पाणौ स्थास्यति सोऽन्तिके / ततो ब्रूते स यत् किञ्चित्, तत्कार्यममुनेति दिग् // 406 // ततो भगवतो वाक्यं, तत् स्वीकृत्य प्रणम्य तम् / गतोऽहं नगरे तस्योपदेशं च प्रणीतवान् // 407 // 219