________________ // 228 // // 229 // // 230 // // 231 // // 232 // // 233 // एकच्छत्रमभूद् राज्यं, परच्छत्रहृतेर्मम / तथाऽपि विपुला च्छाया, चित्रं जगति पप्रथे तथाविधेऽपि साम्राज्ये, प्रक्षुब्धं नैव मे मनः / पुण्योदयस्य माहात्म्यात्, किन्तु बाढं धृतिं दधौ बिभ्रतः शुचि सम्यक्त्वमुद्युक्तस्य सदागमे / गृहिधर्मादरभृतः, साताह्लादितचेतसः पुण्योदयपवित्रस्य, मग्नस्यानन्दसागरे / सुशीलपरिवारस्य, कालो भूयान् गतो मम कल्याणो नाम कल्याणीभक्तिमा प्रियदारकः / अन्यदा प्रणिपत्यैवमास्थानस्थं व्यजिज्ञपत् आह्लादमन्दिरै देव !, देवदानवमानवैः। . पूजिता निर्मलाचार्या, महाभागाः समागताः श्रुत्वा कल्याणवचनं, तन्मुदो मम नो ममुः / चित्ते बहिस्ताः प्रसृताः, प्रसादव्यपदेशतः / ततोऽङ्गलग्नभूषादियुक्तं तस्मै समर्पितम् / दीनाराणां मया लक्षं, तुष्टेन प्रियभाषिणे ततः सर्वसमृद्ध्याऽहं, सवयस्यः सभार्यकः / नगरान्निर्गतः सूरिपदवन्दनहेतवे अथ दृष्टा सुरकृतस्वर्णाम्भोजस्थिता मया / सुरयो देशनोद्युक्ता, मुनिवृन्देन वेष्टिताः ततस्त्यक्तासिकोटीरचामरच्छत्रवाहनः / अहं कृतोत्तरासङ्गः, प्रविष्टस्तदवग्रहे दत्त्वा भगवतः सम्यग, द्वादशावर्तवन्दनम् / मुनीन् यथाक्रमं नत्वाऽशेषान् लब्ध्वा तदाशिषः 205 // 234 // || 235 // // 236 // // 237 // // 238 // // 239 //