________________ // 828 // // 829 // // 830 // // 831 // // 832 // बुद्धो बन्धुधिया सम्यग्दर्शनाख्यो महत्तमः / मुनि प्रत्युक्तमादेशं, करिष्ये भवतामहम् तं मुनीन्द्रं ततो नत्वा, गतोऽहं भवने निजे / ततः प्रभृति संजातः, सदृष्टिनिवर्जितः तदेव सत्यं निःशङ्ख, यज्जिनेन्द्रैः प्रवेदितम् / एतावन्मात्रतुष्टोऽहं, जातः कुग्रहवर्जितः ज्ञानं सदागमेनापि, वितीर्णं मे तदा बहु / सूक्ष्मो भावः परं दृष्टो, न मया मन्दचक्षुषा पटुवाचोऽपि गुरवः, सूक्ष्मज्ञानस्य हेतवः / विशिष्टयोग्यताऽभावान्न तदानीं ममाभवन् सूक्ष्मज्ञानोज्झितं जातं, ततः श्रद्धानमेव मे। . पल्योपमपृथक्त्वे तु, क्षीणे श्राद्धत्वमागतम् सामान्यतस्तदादेशान्नियमाः पालिता मया / . श्रद्धया तत्प्रभावेन, गतोऽहं विबुधालये . सौधर्मे तत्र शयनात्, स्फुरत्कुसुमसौरभात् / प्रवरोल्लोचसन्तानाच्छन्नात् कोमलवाससा समुत्थितः क्षणार्द्धन, ज्योतिर्योतितदिक्पथः / स्फुरत्कोटीरकटकहारकेयूरकुण्डलः स्तुतो. देवैश्च देवीभिः, सुस्निग्धमधुरोक्तिभिः / .. हरिचन्दनमन्दारसन्तानस्रग्विराजितः विलोक्य तादृशी भूति, विस्मितः पर्यचिन्तयम् / कृतं मया किं सुकृतं, ज्ञानं प्रादुरभूत् ततः विरोचनभवावस्था, मया तेनावधारिता / समायातौ च सम्यक्त्वमहत्तमसदागमौ // 833 // // 834 // // 835 // // 836 // // 837 // // 838 // // 839 //