________________ // 816 // ' // 817 // ' // 818 // // 819 // // 820 // // 821 // हृदि स्रोतसिका खेदविश्रामश्चेत्यमी गुणाः / विद्यां विनाऽपि भवतो, गच्छतस्तत्र भाविनः ततो महामन्त्रिवचो, राज्ञश्चाज्ञां प्रमाणयन् / एक एवागतस्तूर्णं, मत्पाद्यं स महत्तमः इतश्चानन्दनन्दिन्योः, सूनुर्नाम्ना विरोचनः / जातोऽहं मानवावासे, संप्राप्तश्चारु यौवनम् गतोऽहं कानने चित्तनन्दने तत्र संयतः / धर्मघोषो मया दृष्टः, तदाऽभूत् कर्मतानवम् निषण्णस्तं महाभागं, वन्दित्वा शुद्धभूतले / तेन मां भद्रकं ज्ञात्वा, कृता सद्धर्मदेशना अत्रान्तरे प्रादुरभूत, पुनर्मम सदांगमः / रुचितं तद्वचः पृष्टो, मुनिः किमुचितं मम / मुनिराह त्वया चिन्त्या, दोषाः संसारगोचराः / आराध्यः परमात्मा च, सिद्धानन्तचतुष्टयः वन्द्यास्तदुपदिष्टाध्वगामिनो मुनयोऽनघाः / ज्ञेयानि नव तत्त्वानि, पेयं जिनवचोऽमृतम् नेयं तदङ्गाङ्गीभावमनुष्ठेयं हितं निजम् / . उपचेयं शुभोपायैः, पुण्यं पुण्यानुबन्धि च विधेयं निर्मलं स्वान्तं, हेयं संकल्पमण्डलम् / ज्ञेयं गुरुवचः सारं, देयं चेतस्तदादरे अवगेयं खलवचः, स्थेयमक्षुब्धचेतसा / इत्थं ब्रुवाणे सूरीन्द्रे, संप्राप्तोऽसौ महत्तमः वीक्षितश्च सुदुर्भेदग्रन्थिभेदादसौ मया / श्रद्धानमात्मरुच्याऽभून्मौनीन्द्रे वचने ततः 180 // 822 // // 825 // // 826 // // 827 //