________________ // 108 // .: // 109 // // 110 // // 111 // // 112 // // 113 // पृष्टोऽहं रत्नचूडेन, धृत्वैकान्तेऽखिलं ततः / मयोक्तं धवलस्यायं, वर्धमानपुरेशितुः भूपतेविमलः पुत्रो, क्रीडानन्दनमुच्चकैः / / सुरम्यं जनवादेन, श्रुत्वा द्रष्टुमिहागतः शुश्राव युवयोः शब्दं, मित्रेणात्र मयाऽन्वितः / भूभागमागतेनाग्रे, दृष्टा च पदपद्धतिः तया नृमिथुनं ज्ञातं, युवां दृष्टौ लतागृहे। अवदानं तवाप्यस्य, ततो व्यक्तमनन्तरम् आह्लादकोऽयं बन्धूनां, रुच्योऽयं सर्वदेहिनाम् / स्पृहणीयोऽपि शमिनां, श्लाघ्यश्च विदुषामपि नानेन प्रतिपन्नं च, किं च नाद्यापि दर्शनम् / तच्छ्रुत्वा रत्नचूडेन, चिन्तितं शुद्धचेतसा प्रदर्शयामि भगवबिम्बमस्य मनोहरम् / कृतः प्रत्युपकारः स्यादित्थमस्य मयोचितः अथासौ विमलं प्रोचे, कुमारेह पि(मा)तामहः / मणिप्रभो ममायातस्तस्येदं रुचितं वनम् समागमकृते विद्याभृतामिह पुनः पुनः / / कृत्वा चैत्यं युगादीशबिम्बं तेन प्रतिष्ठितम् प्रणामार्थमतस्तस्य, बहुशोऽहमिहागतः / तद् द्रष्टुमर्हति भवान् ममानुग्रहकृत् ततः तथेति विमलः प्रोचे, रत्नचूडो जहर्ष च / ततो वयं भवध्वंसिभवनाभिमुखं गताः घटितं स्फटिकैदृष्टं, राजितं स्वर्णराजिभिः / / ज्वलदौषधिरूप्याद्रिशृङ्गाभं भगवद्गृहम् . // 114 // // 115 // // 116 // // 117 // // 118 // // 119 // . . 10