________________ // 96 // // 97 // // 98 // // 99 // // 100 // - // 101 // बद्धेन्द्रकार्मुकं दिक्षु, प्रभाजालैः प्रसृत्वरैः / अखिलग्रहधामेव, पिण्डितं सर्वकार्यकृत् प्रदर्शयित्वा तद् रत्नचूडोऽथ विमलं जगौ / कुमार ! सर्वरोगघ्नमिदं दारिद्रानाशनम् दत्तं तुष्टेन देवेन, मम चिन्तामणिप्रभम् / अनुग्रहं कुरु व्यक्तं, तदस्य ग्रहणेन मे विमलः प्राह पूतात्मन् !, न कार्योऽत्राग्रहस्त्वया / हन्यतां चेतसो दैन्यं, मुच्यतामतिसंभ्रमः विभातीदं लवाभ्यणे, केशवस्येव कौस्तुभः / अत: संगोप्यतां सम्यग्, भावतो दत्तमेव मे तदोक्तं चूतमञ्जर्या, तृष्णाहीनोऽपि नार्हसि। . कर्तुमस्यार्थनाभङ्गं, मयूरस्येव वारिदः यावत् किमुत्तरामीति, धत्तेऽथ विमलो हृदि / तावद् वस्त्राञ्चले बद्धं, रत्नचूडेन तस्य तत् शुशुभे तच्च तादृक्षं, प्राचीगर्भस्थभानुवत् / बहिः प्रसृत्वरज्योतिः, प्रच्छनमपि भास्करम् तन्मनस्तरलं नाभूद्, रत्नं लब्ध्वाऽपि तादृशम् / शशाङ्करत्नमासाद्य, व्योम क्षुभ्यति नाब्धिवत् दृष्ट्वाऽथ हर्षनिर्मुक्तं, विमलं विगतस्पृहम् / तद्गुणैर्भावितश्चित्ते, रत्नचूडो व्यचिन्तयत् अहो माहात्म्यमस्योच्चैरहो निःस्पृहताऽतुला / स्यादीदृशे मनोरत्ने, रत्नैरन्यैः किमस्य वा सखायमस्य पृच्छामि, तत् कृत्योऽयं कुमारकः / किमस्य नाम गोत्रं च, किमुद्दिश्येह चागतः // 102 // // 103 // // 104 // // 105 // // 106 // // 107 //