________________ घनवाहनपार्श्वे तत्, पर्याप्तं गमनेन ते / विपरीतफले कार्ये, निष्फले च यतेत कः // 720 // अकलङ्कस्ततः प्राह, कदैताभ्यां वियोक्ष्यते / घनवाहनराजोऽयमथ सूरिरभाषत // 721 // चारित्रधर्मस्य नरेश्वरस्य, महत्तमो योऽस्ति जगत्प्रसिद्धः / विद्याभिधानाऽस्ति तदीयकन्या, मनोभवा ज्ञातजगत्स्वभावा।। 722 / / जगत्त्रयातीतवरेण्यपुण्य-लावण्यलीलागुणकल्पवल्लिः / ब्रह्मव्रतस्थैर्यभृतां पदं सा, धत्ते मुनीनामपि मानसेषु // 723 // तारुण्यमेषा विषयावभासं, व्यतीत्य बाल्यं रुचिरं बिभर्ति / आत्मावभासं शुचिभावकान्तिविस्तारविक्षोभितरागिवर्गम् // 724 // अस्या वपुर्भूषणतां बिभर्ति, तत्त्वावभासो विनिवृत्तिरूपः / बाह्यं पुरो यस्य सुवर्णरत्नविभूषणं भाति सतां न किञ्चित् // 725 / / इमं जगत्क्षेमवनाम्बुधारा, धर्मान्तरायद्रुमपशुधारा / आनन्दसन्दोहकरी बुधानां, विश्रामभूमिर्मनसां पवित्रा // 726 // भिन्नो महाभाग्यभृतः किलास्याः, प्राप्नोति नेच्छन्नपि चाटुशर्म / भृङ्गं विनाऽन्यो न वसन्तफुल्लवासन्तिकासौरभभोगयोग्यः।। 727 // यदा वदान्यः परिणेष्यतीमां, कन्यां नरेन्द्रो घनवाहनोऽयम् / अस्मात् तदा यास्यति मोहदोषो, मलः सुवर्णादिव शुद्धिभाजः।। 728 // बिभर्ति मोहेन समं विरोधं, छायेव सा यद् ध्रुवमातपेन / दवाग्निनेवाम्बुदवारिधारा, दौर्गत्यदुःखेन सहेव लक्ष्मीः // 729 // चारित्रधर्मस्य तथाऽस्ति कन्या, निरीहता नाम निधिर्गुणानाम् / भ्रात्रोरभीष्टा विरतेश्च कुक्षि-समुद्भवा राज्यविवृद्धिकीं // 730 // प्रवर्द्धिता मन्त्रिमहत्तमाभ्यां, सन्तोषनाम्नाऽपि च तन्त्रपेन / उदारभावार्णवपूर्णिमेन्दु-ज्योत्स्ना जगदुःखलताकृपाणी // 731 // 102