________________ स्वभावरम्या न हि वाञ्छतीयं, रत्नादिसाध्यानि विभूषणानि / दूष्याणि भूष्याण्यपि तानि नास्याः, कुतस्तरां भूषणताऽस्तु तेषु॥७३२॥ स्वर्णैर्न रूप्यैर्न न रत्नपूर्णः, कदाऽपि सा लोभयितुं च शक्या / एकं विना भाग्यमिहैव साधोः, स्वर्गापवर्गोचितशर्मदायि // 733 // सहस्रशः सन्त्यधिभूमि कन्याः, सा रत्नभूावभुवस्तदन्याः / न कास्तटिन्यः कलुषं वहन्ति, जगत् पुनीते सुरसिन्धुरेका // 734 // कलत्रमेषा यदि नाम लब्धा, राज्येन किं भूरिधनेन किं वा / कलत्रमेषा यदि नैव लब्धा, राज्येन किं भूरिधनेन किं वा / / 735 / / अस्या नरेन्द्रो घनवाहनोऽसौ, यदा विवाहाद् भविता कृतार्थः / परिग्रहस्त्यक्ष्यति पार्श्वमस्य, तदैव दैवव्यतिवृत्तिभीतः // 736 // अकलङ्कोऽवदन्नाथ, कदा ते परिणेष्यति / अयं कन्ये गुरुः प्राह, कालेनाद्यापि भूयसा // 737 // प्रत्यूचे थाकलङ्कस्तं, ते कन्ये लम्भयाम्यहम्। गुरुराहाधिकारोऽत्र, नाद्याप्यस्ति भवादृशाम् // 738 // दापयिष्यति ते कर्मपरिणामो महीपतिः / तस्मै कन्ये परः कोऽपि, तयोरस्ति न दायकः // 739 // दापनायोद्यते तस्मिन्, सति युष्मादृशा अपि। हेतुभावं व्रजन्त्येव, तदत्रास्यैव निर्भरः . // 740 // तत् त्यक्त्वा वस्तुनिर्बन्धं, तिष्ठ त्वं स्वस्थमानसः / ततोऽकलङ्कः स्वीकृत्य, तत् तथेति स्थितः सुखम् // 741 // अहं पुनर्महामोहपरिग्रहसमाश्रितः / / तद्भूत्यैः पीडितोऽनेकैर्भूयो भूयो गतागतैः // 742 // एके गच्छन्ति तद्धृत्याः, प्रत्यागच्छन्ति चापरे / सामुद्रा इव कल्लोला, वनवत् प्लावयन्ति माम् // 743 // . .. 173