________________ // 648 // // 649 // // 650 // // 651 // // 652 // // 653 // ततस्तं बालिशं दृष्ट्वा, हन्यमानं स कोविदः / गिरिशृङ्गादपक्रान्तः, परं संवेगमागतः धर्मघोषाभिधं प्राप्य, सूरिं तस्यान्तिके ललौ / दीक्षां तेन निजे स्थाने, क्रमाच्चासौ निवेशितः स एषोऽहं महीपाल ! विज्ञेयः कोविदस्त्वया / भ्राता मे बालिशः सङ्गकुमित्रेण विनाशितः अहं सदागमेनैव, दुःखजालाद् विमोचितः / सम्प्रत्यपि करोम्याज्ञामतोऽस्यैव हितैषिणः दुष्टः सङ्गस्ततस्त्याज्यो, न त्याज्यश्च सदागमः / हितैषिणामिदं तत्त्वं, स्वचरित्रेण दर्शितम् आकर्येदं गुरोर्वाक्यं, मयेदं परिभावितम् / त्याजयत्येष मां हन्त, महामोहपरिग्रहो, सदागमेन सार्द्धं च, संस्तवं कारयत्यलम् / ततः किं करवाणीति, यावच्चिन्तापरः स्थितः भावं ज्ञात्वाऽकलङ्केन, तावन्मां प्रति जल्पितम् / बुद्धं भागवतं वाक्यं, किं न वा घनवाहन ! मयोक्तं सुष्ठ बुद्धं स, प्राह तत् क्रियतामिदम् / अकलङ्काश्रयप्रेम्णो, गाढरूढतया ततः अचिन्त्यत्वात् प्रभावस्य, कोविदाचार्यसन्निधेः / कर्मग्रन्थेः पुनः प्रत्यासन्नत्वादुत्तराक्षमः अकलङ्कस्य वचनमहं तत् प्रतिपन्नवान् / भूयः सदागमोऽभ्यणे, तदा मम समागतः शीलिता सकला चैत्यवन्दनादिक्रिया पुनः / / गुणितं पूर्वपठितं, नमस्कारादि किञ्चन 16 // 654 // // 655 // // 656 // // 657 // // 658 // // 659 //