________________ // 552 // // 553 // // 554 // // 555 // // 556 // // 557 // ततोऽहमकलङ्कस्य, सिक्तस्तैर्वचनामृतैः / . शर्मागृहीतसंकेते, मनाक् चित्तेऽनुभूतवान् भिन्नं मे कर्मपटलं, तदृष्टान्तैरयोघनैः / अतीत्याहं स्थिति बह्वीं, कर्मग्रन्थ्यन्तिके स्थितः इतश्च सैन्यं चारित्रधर्मराजस्य यत् स्थितम् / चित्तवृत्तिमहाटव्यां, निरुद्धं मोहसेनया तदा तत् तादृशं दृष्ट्वा, पीडितं शत्रुभिर्बलम् / सद्बोधमन्त्री चारित्रधर्मभूपमभाषत , कर्तव्यो देव ! नो खेदो, दृश्यते कुसुमोद्गमः / अस्मन्मनोरथतरोः, संसार्यस्ति यदुन्मुखः दृष्ट्वाऽधुना मनाक् शुभ्रां, चित्तवृत्तिमहाटवीम् / ऊहे संसारिजीवस्यास्मद्ज्ञानाभ्यर्णवर्तिताम् "पणापत्यास्मशानाभ्यणवातताम् अस्य दृष्टौ च शक्तिर्नः, शत्रुघाते स्फुरिष्यति / मन्त्राधिष्ठायकस्येव, मन्त्रशक्तिर्महीयसी . तमापृच्छ्य ततः कर्मपरिणाममहीभुजम् / . पार्श्वे संसारिजीवस्य, प्रेष्यतां कोऽपि मानवः भूयसाऽनेहसा बाढं, ततस्तेनानुकूलितः / सतृष्णो दर्शनेऽस्माकं, स निर्मिथ्यं भविष्यति ततश्चारित्रधर्मेण, प्रोक्तं कः प्रेषणोचितः / सद्बोधः प्राह सर्वेषामुपकारी सदागमः संस्तवात्- सोऽस्य बहुशो, दिक्षुर्नो भविष्यति / तस्मै कर्मपरिणामस्ततोऽस्मान् ज्ञापयिष्यति ततो वयं हनिष्यामः, शत्रून् श्रुत्वेति मन्त्रिणः / वाचं नृपो मदभ्यर्णे, प्रजिघाय सदागमम् // 558 // // 559 // // 560 // // 561 // // 562 // // 563 // 158