________________ // 540 // // 541 // // 542 // // 543 // // 544 // || 545 // अनभ्रानुपरागेन्दुनिर्मलं ते यदा मनः / रजस्तमोऽनभिभवात्, तदा ते परमं सुखम् प्रतिष्ठा शौकरी विष्टा, राज्यं चित्ते यदा रजः / भोगा रोगा इवाभान्ति, तदा ते परमं सुखम् व्याघ्रादिवान्यनिन्दायाः, परद्रोहादहेरिव / यदा बिभेति चित्तं ते, तदा ते परमं सुखम् धर्मश्चित्ते परिणमेच्चन्दने गन्धवद् यदा / आकालमेकभावेन, तदा ते परमं सुखम् शीततापादिभिर्भावैः, स्याच्चित्तस्यानुपद्रुता / सर्वसहा यदा वृत्तिस्तदा ते परमं सुखम् यदा न प्रेर्यते चित्तं, चिन्मात्रप्रतिबन्धतः / . अनादिवासनावातैस्तदा ते परमं सुखम् ज्ञाननीरैर्वतक्षारैधौतपापमलं यदा / चित्तवस्त्रं भवेच्छुद्धं, तदा ते परमं सुखम् / संपूर्य ब्रह्मणा सर्वं, सममुच्चावचं जगत् / यदा ध्यायति ते चित्तं, तदा ते परमं सुखम् संहृत्य बुद्बुदप्रायान्, भावान् सांसारिकान् यदा / चित्तोदधिः स्थिरस्ते स्यात्, तदा ते परमं सुखम् परास्यप्रेक्षितां त्यक्त्वा, दासतां लप्स्यते मनः / सदाऽनुभवसाम्राज्यं, तदा ते परमं सुखम् न सुषुतं यदा चित्तं, न सुप्तं नापि जागरम् / सुर्यावस्थानुभवभृत्, तदा ते परमं सुखम् इति चित्तं विना नान्यः, सुखहेतुर्जगत्रये / चित्तवृत्तिं ततो रक्ष, लक्षयन् वास्तवीं स्थितिम् // 547 // // 548 // // 549 // // 550 // // 551 // . 157