________________ // 528 // // 529 // // 530 // // 531 // / / 532 // // 533 // इदं हेतुर्भवस्यापि, शिवस्यैव न केवलम् / यत् पूर्वपदिकारूढं, हट्टमार्गे नयत्यदः . असंख्याध्यवसायेषु, चरत् तत् चित्तवानरम् / विचित्रयोनिरूपस्य, संसारस्य विधायकम् पदिकायां समारुह्य, मरणोत्प्लवनं हि तत् / करोति प्राणभाजस्तत्पदिकास्थभवे नयेत् सदोषं भवहेतुस्तत् निर्दोषं मोक्षदं मनः / अत एव परेऽपीत्थमामनन्ति मनीषिणः / चित्तमेव हि संसारो, रागादिक्लेशवासितम् / तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते गुह्याद् गुह्यतरं तत्त्वं, तदिदं कथयामि ते / चित्तमेव हि सद्रत्नं, रक्षणीयं प्रयत्नतः यावद्धावति चित्तं ते, जवनं पवनादपि / कामेषु सुखगन्धोऽपि, तावत् तव न विद्यते यदा बहिर्धमें त्यक्त्वा, स्थिरीभावं प्रपद्य च / निःस्पृहं भावि चित्तं ते, तदा ते परमं सुखम् यदा ध्यानसरोमध्ये, निलीनं स्वगुणाम्बुजे / भविष्यत्यलिवच्चित्तं, तदा ते परमं सुखम् अभिरामासु रामासु, श्यामासु च मषीषु ते / यदा समं भवेच्चित्तं, तदा ते परमं सुखम् प्रत्यवस्थातरि क्रुद्ध, स्वान्तशुद्धे च सज्जने / यदा मनस्ते निर्भेदं, तदा ते परमं सुखम् स्फुरत्कान्तिषु रत्नेषु, मृत्स्नायां च न भेदिनी 1 यदा ते स्यान्मनोवृत्तिस्तदा ते परमं सुखम् // 534 // // 535 // // 536 // // 537 // // 538 // // 539 // . 15s