________________ // 447 // // 448 // प्रवृत्तस्य च तेष्वस्य, जायते कर्मगुण्डनम् / ततस्तस्यार्द्रतां या स्यात्, सा भोगस्नेहवासना // 444 // ततो भवन्ति संसारसंस्काराश्च क्षतोपमाः / व्यथयन्ति ततश्चित्तं, सर्वे रागाद्युपद्रवाः // 445 // मूषकाद्याः प्रगल्भन्ते, ततः सर्वे प्रतिक्षणम् / धावति प्रेर्यमाणं तैर्भूयश्च विषयेषु तत् // 446 // पुनः कर्म पुनः स्नेहः पुनः सर्वेऽप्युपद्रवाः / तदस्मिन् चक्रके मग्नं, चित्तमेतन्न मुच्यते रक्षको वज्रदण्डोस्य, गुरुणा मेऽभ्यधायि यः / तमप्रमादमादाय, वारयिष्यामि तद् दृढम् / भावयिष्यामि संसारविलासं स्वप्नसन्निभम् / . निवय॑ते ततश्चित्तबन्धो मे भवजालतः // 449 // अनाद्यभ्यासतस्तच्च, बहिर्गच्छत् पुनः पुनः / आत्मन्येव समाधाय, स्थापयिष्यामि यत्नतः // 450 // तथेदं शिक्षयिष्यामि, बहिनिर्यासि चित्त ! किम् / स्वरूपे तिष्ठ निभृतं, यथाऽऽनन्दे निमज्जसि // 451 // किं बहिनिधये स्वान्त !, भ्रान्त्वा भ्रान्त्वा विषीदसि / निधि स्वसन्निधावेव, स्थिरता दर्शयिष्यति // 452 // ज्ञानदुग्धं विनश्येत, लोभविक्षोभकूर्चकैः / अम्लद्रव्यादिवास्थैर्यादिति मत्वा स्थिरो भव // 453 // त्वयाऽन्तःस्थं महाशल्यमस्थैर्य यदि नोद्धृतम् / क्रियौषधस्य को दोषस्तदा गुणमयच्छतः // 454 // स्थैर्यरत्नप्रदीपश्चेद्, दीप्र: संकल्पदीपजैः / तत्कुतर्केरलं धूमैरलंधूमैस्तथाऽऽश्रवैः // 455 // 149