________________ उदीरयिष्यसि स्वान्त ! यद्यस्थैर्यमहाऽनिलम् / समाधेर्धर्ममेघस्य, घयं विघदयिष्यसि // 456 // हित्वा बहिर्धमं चित्त !, तदात्मन्येव संचर / तवात्मचारो निर्वाणं, बहिश्यारो भवोदधिः सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् / बहिश्च परवत्ता ते, सुखं स्वाधीनमात्मनि दंदह्यमानं भोगाग्नौ, बहिर्कामसि संभ्रमात् / धृतं शमामृतभृते, किं चित्तात्मनि ताम्यसि // 459 // तिष्ठात्मन्येव तच्चित्त !, गुणपूर्णे निराकुलम् / ... अत्र स्थितस्य ते भोगस्नेहशोषाद् रजःक्षतिः // 460 // दुर्वासनाव्रणौघस्य, रोहणं च भविष्यति / ततस्ते व्याधिहीनस्य, भोगरागो विनक्ष्यति // 461 // ये मुहूर्तं सुखाभासा, भुक्ताः स्युः क्षतवर्द्धनाः / न सेव्यास्ते त्वया भोगाः, कण्डूकण्डूयनोपमाः . // 462 // संक्लिष्टवासनाध्यानदारुणक्षतकारकान् / हित्वा भोगान् निराबाधमध्यात्मपदमाश्रय // 463 // शिक्षयित्वेदमित्येवं, चित्तं तद्रक्षणोद्यमम् / करिष्ये धारयिष्यामि, धारणापञ्जरे च तत् // 464 // तत्पीडकान् कषायाद्यान्, हनिष्याम्यप्रमादतः / भावीदमित्थं विक्षिप्तयातायातदशोर्ध्वगम् // 465 // श्लिष्टं भूत्वा ततः स्थाष्णुस्वरूपे स्वास्थ्यमाप्स्यति / . यास्यन्ति प्रलयं सर्वे, ततो रागाद्युपद्रवाः // 466 // विद्योदयेन ध्यानेन, प्रतिपक्षनिषेवया / उपद्रवेषु लीनेषु, सुलीनं तद् भविष्यति गाटतेN लीनेष सलीनं तट भविष्यति // 7 // 150