________________ // 432 // // 433 // // 434 // // 435 // // 436 // // 437 // बहिर्गवाक्षैर्निर्गच्छेत् फलानां भक्षणेच्छया / द्रुमेषु विषयाख्येषु, लौल्योद्रेकात् पुनः पुनः बहिःप्रचारहीनस्य, ततोऽस्यानभिलाषिणः / शोषं यास्यति देहस्य, भोगस्नेहकृताऽऽर्द्रता शटिष्यति ततो रौक्ष्यात, तद्रजश्च प्रतिक्षणम् / / क्षतान्यपि च रोक्ष्यन्ति, दाहोऽपि शममेष्यति . भविष्यति न कृष्णत्वं, रक्तता च विनश्यति / आविर्भविष्यति श्वैत्यं, स्थैर्यं च रमणीयता तेऽप्यप्रमाददण्डेन, निष्पेष्या मूषकादयः / . ततो गर्भगृहस्थायि, निर्बाधं तद् भविष्यति तदयं रक्षणोपायस्तस्य ते कीर्तितो मया / मयोक्तं रक्षितेनार्थः, कस्तेन भगवन् ! मम गुरुराह शिवप्राप्तिः, स्यादित्थं रक्षितात् ततः / अरक्षितस्य तस्य स्याच्चक्रकाद् भ्रमणं भवे तत् तैरुपद्रवैर्गाद, मूषकाद्यैः प्रपीडितम् / .. मूषकाद्याः प्रगल्भन्ते, भक्षणादेव तस्य ते भूयश्च पीड्यमानं तैराम्रकेष्वेव धावति / पुनर्गुण्डनमेवास्य, स्नेहेन पुनरार्द्रता पुनश्च क्षतसम्पत्तिः, पुनः सर्वेऽप्युपद्रवाः / अस्य वानररूपस्य, चक्रकं दुस्तरं ह्यदः विधेयश्चक्रकोच्छेदो, रक्षता तददस्त्वया / उपायेन मदुक्तेन, शुद्धमार्गेण गच्छता ततो भावार्थविदुषा, मयेदं परिचिन्तितम् / . रागाधुपद्रुतं चित्तं, विषयेषु प्रवर्तते // 438 // // 439 // // 440 // // 441 // // 442 // // 443 // 148