________________ // 300 // // 301 // // 302 // // 303 // // 304 // // 305 // मूर्च्छन् कषायपातालकुम्भोत्थाश्रवमारुतैः / पापाविरतिगम्भीरों, भवविस्तार एव हि / रत्नद्वीपस्य तु स्थाने, ज्ञेयो मानुष्यको भवः / कुतूहलं च विषयाभिलाषः काननादिषु शङ्खाक्षकाचशकलस्थाने धर्माः परोदिताः / धूर्ताः कुतीर्थिका ज्ञेया, बोहित्थं जीवलक्षणम् स्वस्थानगमनं मोक्षावाप्तिः शुद्धनयस्थितैः / मूढस्योपरि यः क्रुद्धो, नृपोऽसौ कर्मनामकः क्षेपः समुद्रमध्येऽस्य, दुरन्तभवमज्जनम् / परीक्षकस्य यच्चारोः, प्रयतस्यार्थसाधनम् तद् भवत्येव चारित्रप्राप्तेः साधोर्महात्मनः / सम्यक् तत्त्वार्थबोधेनाविप्रलभ्यस्य तीथिकैः अव्याक्षिप्तस्य विषयेष्वनित्यत्वादिभावनात् / . क्षान्त्यादिभावरत्नानामविलम्बेन संग्रहात् योग्यस्य जानतोऽप्युक्तं, कौतुकं यच्च बाधकम् / श्राद्धेषु युक्तं तत्सर्वं, भावरत्नविदो हि ते सद्गुणग्रहवाणिज्यं, कुर्वन्ति कियदप्यमी / गमयन्ति परं कालं, व्यर्थं विषयकौतुकात् तथाऽपि बहुकालेन, मीलयन्ति कियन्त्यप्ति / गुणरत्नानि ने पुनः, साधुयोग्यगुणोच्चयम् ज्ञानादिभावरत्नौधैः; पूर्णश्चारुमुनीश्वरः / मोक्षे यियासुः स्वस्थाने, वदत्येवेति तान् प्रति भो भद्राः ! किं मनुष्यत्वे, स्वाधीने सद्गुणार्जने / परिपूर्णगुणा यूयं, न सम्पन्ना यथा वयम् // 306 // // 307 // / / 308 // // 309 // // 310 // // 311 //