________________ // 252 // // 253 // // 254 // // 255 // // 256 // // 257 // रत्नद्वीपं गता रत्नसमूहार्जनकाम्यया / चकार रत्नवाणिज्यं, तत्र चारुरनन्यधीः रत्नद्वीपेऽपि नाप्यन्ते, रत्नान्युद्यममन्तरा / पूर्णेऽपि हि तटाके कः, पिबन्त्यम्बु विनाऽञ्जलिम् इत्यावर्जयता लोकान् नानोपायकृताऽमुना / पूरितं मङ् क्षु बोहित्थमजितै रत्नराशिभिः रत्नानां गुणदोषज्ञः, काननादौ न कौतुकी / इत्येष सत्कियो ज्ञानी, तत्र स्वार्थमसाधयत् योग्योऽपि, कुरुते किञ्चिद्, रत्नानां गुणदोषवित् / अर्जनं तस्य किं त्वस्ति, कौतुकं काननादिषु तेन रत्नार्जनं तस्य, राजवेष्टिसमं भवेत् / कौतुकेन वृथा यान्ति, वासराः काननादिषु मिलितानि बहो: कालात्, तथाऽप्यस्य कियन्त्यपि / रत्नानि किं त्वनेनेह, स्वल्पेन बहु हारितम् हितज्ञस्तु स्वयं वेत्ति, रत्नानि न परीक्षितुम् / परोपदेशतस्तानि, लक्षयत्येष केवलम् विहारारामचित्रादिविलोकनकुतूहलात् / करोति रत्नवाणिज्यं, नासौ तीव्रप्रमादभाग् रत्नबुद्ध्यैव गृह्णाति, काचशङ्खकपर्दकान् / रत्नद्वीपेऽपि संप्राप्तो, धूर्तलोकैः स वञ्चितः मूढस्तु न स्वयं वेत्ति, रत्नराशीन् परीक्षितुम् / उपदेशं परस्यापि, श्रद्धत्ते नैव मोहतः अत्यन्तकौतुकी चासौ, चित्रोद्यानादिदर्शने / गृह्मति सत्यरत्नद्विट्, काचादीन् धूर्तहस्ततः ... 133 // 258 // // 259 // // 260 // // 261 // // 262 // // 263 //