________________ // 228 // // 229 // // 230 // // 231 // // 232 // हसन्तीव तपःसत्यचारित्रगुणनिह्नवात् / वल्गन्तीव विना हेतुं, नास्त्यात्मेत्यादिवादतः सर्वज्ञमतनिष्णातै रुदन्तीव निराकृताः / यथेष्टचेष्टाकरणान्नृत्यन्तीव लसत्कराः गायन्तीव पठन्तश्च, तर्कदण्डोलकान्निजान् / एवं कर्मविषोन्मादाद्, भवन्ति ग्रहिला जनाः यच्चोक्तं मुनिना तेन, मोचितोऽहं कृपालुना / महावैद्यकदक्षेण, सन्निपातात् सुदारुणात् तद् युक्तमेव यदमी, भवन्त्येव कृतश्रमाः / सिद्धान्ते वैद्यकाकारे, मुनयः शुद्धबुद्धयः लक्षयन्ति स्वरूपं च, ते सर्वभववर्तिनाम् / दयां च कुरुते कर्मभोजनात् सन्निपन्नके अत एव सुसाधूनामाकोशादिपरा अपि / . न रुषां विषयाः किन्तु, कृपाया भवजन्तवः सन्निपातात् तथोन्मादात्, कर्मणां ये प्रपीडिताः / आक्रोशादिपरायत्ताः, कुर्वते तेषु किं रुषा कोपो न युज्यते तेषु, क्षारक्षेप इव क्षते / कथमेषामयं दोषो नश्येदिति कृपोचिता .. कर्मवेष्टितजन्तूनां, चेष्टितानि विवेकिनाम् / शाणत्वं यान्ति वैराग्यशत्रोत्तेजनहेतवे लब्ध्वापि नृभवं जन्तूनुन्मत्तान् सन्निपन्नकान् / दृष्ट्वा जिनमतज्ञः को, रज्येत भवचारके ततोऽयं करुणाढ्येन, गुरुणा सन्निपन्नकः / स्वस्थीकृतः सुवैद्येन, च्छात्राभो वचनौषधैः // 233 // . // 234 // // 235 // // 236 // // 237 // // 238 // // 239 // 131