________________ // 180 // // 181 // // 182 // // 183 // // 184 // // 185 // कर्मकाराः स्मृतास्तत्र, हास्यशोकभयादयः / जुगुप्साऽरत्यरत्याद्यास्तेषां च परिचारिकाः / मिथ्यात्वं च प्रमादश्च, तत्र तुम्बद्वयं महत् / विलासविभ्रमोल्लासरूपास्तत्रारकाः स्मृताः असंयमाभिधः कूपस्तत्र दृष्टो भयङ्करः / अनन्तदुःखपानीयभृतोऽदृष्टतलः सदा जीवलोको घटीयन्त्रं, तेन पूरितरेचितम् / मरणाख्यैर्वहन्नित्यं, षाट्कारैरेष लक्ष्यते आत्मा ज्ञानेन रहितो, ज्ञेयस्तत्र प्रतीच्छकः / मिथ्याभिमानसंज्ञं च, तस्य वार्घटिकं दृढम् तत्र निर्वहणी क्लिष्टचित्तताभोगलोलता / कुल्या दीर्घाऽन्यान्यजन्मगणाः केदारका मताः बीजं च कर्मजालाख्यं, वापकस्तत्र कीर्तितः / तज्जीवपरिणामाख्यो, विकाराः सस्यसम्पदः पानान्तिकोऽस्त्यसद्बोधः, कर्मक्षेत्रस्य सेचने / मोहादिष्टः सदोद्युक्तोऽरघट्टपरिपालक: भवारघट्टे तत्राहं, प्रसुप्तः सततभ्रमे / बोधितोऽनेन गुरुणा, ध्यानस्थेन महात्मना उक्तं चानेन भोक्ताऽस्ति, क्षेत्रस्यास्य फलं भवान् / जन्तो ! भवारघट्टस्य, स्वरूपं किं न वेत्सि भोः अयं भवारघट्टस्ते, दुःखानामेककारणम् / परित्यज़ तदेनं चेत्, सुखेन स्थातुमिच्छसि मया प्रोक्तं यथा त्यक्तो, भवत्येष तथा वद / मुनिराह महाभाग !, भावदीक्षां गृहाण तत् 127 // 187 // // 188 // // 189 // // 190 // / पद / // 191 //