________________ भवारघट्टस्तैस्त्यक्तो, भावतो ये हि साधवः / .. ततस्तदाज्ञां स्वीकृत्य, प्रव्रज्येयं मयाऽऽदृता // 192 // अयं वैराग्यहेतुर्मे, श्रुत्वेति मुनिभाषितम् / अकलङ्कस्त्वया सुष्ठ, बुद्धमित्यन्वमोदत . // 193 // ततस्तं साधुमानम्य, सोऽकलङ्को मया सह / पञ्चमस्य मुनेः पार्श्व, ययौ तं प्रंणनाम च * // 194 // सोऽपि तेन महाभागो, मम बोधविधित्सया / वैराग्यकारणं पृष्टः, स्पष्टमाचष्ट शुद्धधीः / // 195 // नानारूपा वयं चट्टास्तिष्ठामः स्म क्वचिन्मठे / तत्र चायातमस्माकं, भृशं भक्तं कुटुम्बकम् // 196 // अनेकमानुषोपेतं, पञ्चमानुषतन्त्रितम् / . तदस्माभिर्हितं बुद्धं, शत्रुभूतमपि स्फुटम् // 197 // कृतं च भोजनं तंत्र, चित्रं तेनाथ भक्षितम् / छात्रैरज्ञातसद्भावैस्तैस्तद्भोजनलोलुपैः // 198 // केषाञ्चित् सन्निपाताय, तदभून्मन्त्रयोगजम् / . उन्मादकृच्च केषाञ्चिच्छात्राणां बहुभक्षिणाम् // 199 // ततो मिलितकण्ठास्ते, स्तब्धजिह्यः सुविह्वलाः / / क्वचित् तप्ताः क्वचिच्छीताः, क्वचिदुद्भ्रान्तमानसाः // 200 // भृशं घुरघुरायन्तो, लोलमाना भुवस्तले / क्वचिज्झगझगायन्तश्छात्राः शोच्यां दशां गताः // 201 // ये तून्मत्ताः समापन्नास्ते देवगुरुनिन्दिनः / लपन्ति विपरीतानि, पशुवनष्टधर्मकाः // 202 // इतश्च योऽसौ स्वाध्यायलीनः साधुपुरन्दरः / . महावैद्यकनिष्णातो, दृष्टस्तेनाहमातुरः . // 203 // 128